- ॐ ब्रह्मर्षिभ्यो नमः ।
- ॐ वेदविद्भ्यो नमः ।
- ॐ तपस्विभ्यो नमः ।
- ॐ महात्मभ्यो नमः ।
- ॐ मान्येभ्यो नमः ।
- ॐ ब्रह्मचर्यरतेभ्यो नमः ।
- ॐ सिद्धेभ्यो नमः ।
- ॐ कर्मठेभ्यो नमः ।
- ॐ योगिभ्यो नमः ।
- ॐ अग्निहोत्रपरायणेभ्यो नमः ।
- ॐ सत्यव्रतेभ्यो नमः ।
- ॐ धर्मात्मभ्यो नमः ।
- ॐ नियताशिभ्यो नमः ।
- ॐ ब्रह्मण्येभ्यो नमः ।
- ॐ ब्रह्मास्त्रविद्भ्यो नमः ।
- ॐ ब्रह्मदण्डधरेभ्यो नमः ।
- ॐ ब्रह्मशीर्षविद्भ्यो नमः ।
- ॐ गायत्रीसिद्धेभ्यो नमः ।
- ॐ सावित्रीसिद्धेभ्यो नमः ।
- ॐ सरस्वतीसिद्धेभ्यो नमः ।
- ॐ यजमानेभ्यो नमः ।
- ॐ याजकेभ्यो नमः ।
- ॐ ऋत्विग्भ्यो नमः ।
- ॐ अध्वर्युभ्यो नमः ।
- ॐ यज्वभ्यो नमः ।
- ॐ यज्ञदीक्षितेभ्यो नमः ।
- ॐ पूतेभ्यो नमः ।
- ॐ पुरातनेभ्यो नमः ।
- ॐ सृष्टिकर्तृभ्यो नमः ।
- ॐ स्थितिकर्तृभ्यो नमः ।
- ॐ लयकर्तृभ्यो नमः ।
- ॐ जपकर्तृभ्यो नमः ।
- ॐ होतृभ्यो नमः ।
- ॐ प्रस्तोतृभ्यो नमः ।
- ॐ प्रतिहर्तृभ्यो नमः ।
- ॐ उद्गातृभ्यो नमः ।
- ॐ धर्मप्रवर्तकेभ्यो नमः ।
- ॐ आचारप्रवर्तकेभ्यो नमः ।
- ॐ संप्रदायप्रवर्तकेभ्यो नमः ।
- ॐ अनुशासितृभ्यो नमः ।
- ॐ वेदवेदान्तपारगेभ्यो नमः ।
- ॐ वेदाङ्गप्रचारकेभ्यो नमः ।
- ॐ लोकशिक्षकेभ्यो नमः ।
- ॐ शापानुग्रहशक्तेभ्यो नमः ।
- ॐ स्वतन्त्रशक्तेभ्यो नमः ।
- ॐ स्वाधीनचित्तेभ्यो नमः ।
- ॐ स्वरूपसुखिभ्यो नमः ।
- ॐ प्रवृत्तिधर्मपालकेभ्यो नमः ।
- ॐ निवृत्तिधर्मदर्शकेभ्यो नमः ।
- ॐ भगवत्प्रसादिभ्यो नमः ।
- ॐ देवगुरुभ्यो नमः ।
- ॐ लोकगुरुभ्यो नमः ।
- ॐ सर्ववन्द्येभ्यो नमः ।
- ॐ सर्वपूज्येभ्यो नमः ।
- ॐ गृहिभ्यो नमः । ५५।
- ॐ सूत्रकृद्भ्योनमः ।
- ॐ भाष्यकृद्भ्यो नमः ।
- ॐ महिमसिद्धेभ्यो नमः ।
- ॐ ज्ञानसिद्धेभ्यो नमः ।
- ॐ निर्दुष्टेभ्यो नमः ।
- ॐ शमधनेभ्यो नमः ।
- ॐ तपोधनेभ्यो नमः ।
- ॐ शापशक्तेभ्यो नमः ।
- ॐ मन्त्रमूर्तिभ्यो नमः ।
- ॐ अष्टाङ्गयोगिभ्यो नमः ।
- ॐ अणिमादिसिद्धेभ्यो नमः ।
- ॐ जीवन्मुक्तेभ्यो नमः ।
- ॐ शिवपूजारतेभ्यो नमः ।
- ॐ व्रतिभ्यो नमः ।
- ॐ मुनिमुख्येभ्यो नमः ।
- ॐ जितेन्द्रियेभ्यो नमः ।
- ॐ शान्तेभ्यो नमः ।
- ॐ दान्तेभ्यो नमः ।
- ॐ तितिक्षुभ्यो नमः ।
- ॐ उपरतेभ्यो नमः ।
- ॐ श्रद्धाळुभ्यो नमः ।
- ॐ विष्णुभक्तेभ्यो नमः ।
- ॐ विवेकिभ्यो नमः ।
- ॐ विज्ञेभ्यो नमः ।
- ॐ ब्रह्मिष्ठेभ्यो नमः ।
- ॐ ब्रह्मनिष्ठेभ्यो नमः ।
- ॐ भगवद्भ्यो नमः ।
- ॐ भस्मधारिभ्यो नमः ।
- ॐ रुद्राक्षधारिभ्यो नमः ।
- ॐ स्नायिभ्यो नमः ।
- ॐ तीर्थेभ्यो नमः ।
- ॐ शुद्धेभ्यो नमः ।
- ॐ आस्तिकेभ्यो नमः ।
- ॐ विप्रेभ्यो नमः ।
- ॐ द्विजेभ्यो नमः ।
- ॐ ब्राह्मणेभ्यो नमः ।
- ॐ उपवीतिभ्यो नमः ।
- ॐ मेधाविभ्यो नमः ।
- ॐ पवित्रपाणिभ्यो नमः ।
- ॐ संस्कृतेभ्यो नमः ।
- ॐ सत्कृतेभ्यो नमः ।
- ॐ सुकृतिभ्यो नमः ।
- ॐ सुमुखेभ्यो नमः ।
- ॐ वल्कलाजिनधारिभ्यो नमः ।
- ॐ ब्रसीनिष्ठेभ्यो नमः ।
- ॐ ब्रसीनिष्ठेभ्यो नमः ।
- ॐ जटिलेभ्यो नमः ।
- ॐ कमण्डलुधारिभ्यो नमः ।
- ॐ सपत्नीकेभ्यो नमः ।
- ॐ साङ्गेभ्यो नमः ।
- ॐ वेदवेद्येभ्यो नमः ।
- ॐ स्मृतिकर्तृभ्यो नमः ।
- ॐ मन्त्रकृद्भ्यो नमः ।
- ॐ दीनबन्धुभ्यो नमः ।
- ॐ श्रीकश्यपादि सर्व महर्षिभ्यो नमः ।
- ॐ अरुन्धत्यादि सर्वर्षिपत्नीभ्यो नमः ।
श्री ऋषि अष्टोत्तर शतनामावली Shree Rishi Ashtottara Shatanamavali
मार्च 25, 2023
0
Tags