वैदिक आरती |
वैदिक आरती (Vaidik Aarti Lyrics in Hindi) -
।। वैदिक आरती ।।
ॐ ये देवासो दिव्येकादश स्थ
पृथिव्यामध्येकादश स्थ ।
अप्सुक्षितो महिनैकादश स्थ
ते देवासो यज्ञमिमं जुषध्वम् ॥
(यजुर्वेद ७।१९)
ॐ आ रात्रि पार्थिवाँ रजः
पितुरप्रायि धामभिः ।
दिवः सदाँसि बृहति वि
तिष्ठस आ त्वेषं वर्तते तमः ॥
(यजुर्वेद ३४।३२)
ॐ इदाँ छं हविः प्रजननं मे अस्तु
दशवीराँ थं सर्वगणाँ स्वस्तये ।
आत्मसनि प्रजासनि पशु-
सनि लोकसन्यभयसनि ।
अग्निः प्रजां बहुलां मे करोत्वन्नं
पयो रेतो अस्मासु धत्त ।।
(यजुर्वेद १९।४८)