देवकृत् गणेश स्तवन स्तोत्र Dev Krit Ganesh Stavan Strotram

M Prajapat
0
देवकृत् गणेश स्तवन स्तोत्र Dev Krit Ganesh Stavan Strotram
देवकृत् गणेश स्तवन स्तोत्र

देवकृत् गणेश स्तवन स्तोत्र Dev Krit Ganesh Stavan Strotram

।। श्री गणेश स्तवन स्तोत्र ।।

देवा ऊचुः
गजाननाय पूर्णाय साङ्ख्यरूपमयाय ते। 
विदेहेन च सर्वत्र संस्थिताय नमो नमः ॥१॥

अमेयाय च हेरम्ब परशुधारकाय ते। 
मूषकवाहनायैव विश्वेशाय नमो नमः ॥ २॥

अनन्तविभवायैव परेषां पररूपिणे ।  
शिवपुत्राय देवाय गुहाग्रजाय ते नमः ।।३।।

पार्वतीनन्दनायैव देवानां पालकाय ते।
सर्वेषां पूज्यदेहाय गणेशाय नमो नमः ॥ ४॥ 

स्वानन्दवासिने तुभ्यं शिवस्य कुलदैवत । 
विष्ण्वादीनां विशेषेण कुलदेवाय ते नमः ॥५॥

योगाकाराय सर्वेषां योगशान्तिप्रदाय च।
ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूतप्रदाय ते ॥ ६ ॥

सिद्धिबुद्धिपते नाथ सिद्धिबुद्धिप्रदायिने । 
मायिने मायिकेभ्यश्च मोहदाय नमो नमः ॥ ७ ॥ 

लम्बोदराय वै तुभ्यं सर्वोदरगताय च। 
अमायिने च मायाया आधाराय नमो नमः ॥ ८ ॥ 

गजः सर्वस्य बीजं यत्तेन चिह्नेन विघ्नप। 
योगिनस्त्वां प्रजानन्ति तदाकारा भवन्ति ते ॥ ९ ॥ 

तेन त्वं गजवक्त्रश्च किं स्तुमस्त्वां गजानन । 
वेदादयो विकुण्ठाश्च शङ्कराद्याश्च देवपाः ॥ १०॥

शुक्रादयश्च शेषाद्याः स्तोतुं शक्ता भवन्ति न । 
तथापि संस्तुतोऽसि त्वं स्फूत्या त्वद्दर्शनात्मना ॥ ११॥

।। इति श्रीमुद्‌गलपुराणे देवकृतं श्रीगणेशस्तवनं सम्पूर्णम् ॥

ये भी पढ़ें -

Shri Gajanan Stotram with Lyrics | श्री गजानन स्तोत्रम्


एक टिप्पणी भेजें

0टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!