श्री गणेश प्रातः स्मरण स्तोत्र Shri Ganesh Pratah Smaranam Stotram

M Prajapat
0

श्री गणेश प्रातः स्मरण स्तोत्र Shri Ganesh Pratah Smaranam Stotram

।। श्री गणेश प्रातः स्मरण स्तोत्र ।।

प्रात: स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुग्मम् ।
उद्दण्डविघ्नपरिखण्डनचण्डदण्ड – माखण्डलादिसुरनायकवृन्दवन्द्यम् ।।१।।
 
प्रातर्नमामि चतुरानन वन्द्यमानं
इच्छानुकूलमखिलंच फलं ददानम् ।
तं तुंदिलं द्विरसनाधिप यज्ञसूत्रं
पुत्रं विलासचतुरं शिवयोः शिवाय ॥ २ ॥

प्रातर्भजाम्यभयदं खलु भक्तशोक-
दावानलं गणविभुं वरकुंजरास्यम् ।
अज्ञानकाननविनाशनहव्यवाहं
उत्साहवर्धनमहं सुतमीश्वरस्य ॥ ३ ॥
 
श्लोकत्रयमिदं पुण्यं सदा साम्राज्यदायकम् ।
प्रातरुत्थाय सततं य: पठेत्प्रयत: पुमान् ।।४।।
 
।। इति श्रीगणेशप्रात: स्मरणस्तोत्रं सम्पूर्णम् ।।

Ganesha Pratah Smarana Stotram | श्री गणेश प्रातः स्मरण मंत्र | Ganesh Mantra


॥ सम्पूर्ण श्री गणेश प्रातः स्मरणम् ॥

उत्तिष्ठोत्तिष्ठ हेरम्ब उत्तिष्ठ ब्रह्मणस्पते ।
सर्वदा सर्वतः सर्वविघ्नान्मां पाहि विघ्नप ॥

आयुरारोग्यमैश्वर्यं माम् प्रदाय स्वभक्तिमत् ।
स्वेक्षणाशक्तिराद्या ते दक्षिणा पातु मं सदा ॥

प्रातः स्मरामि गणनाथमनाथबन्धुं
सिन्दूरपूरपरिशोभितगण्डयुग्मम् ।
उद्दण्डविघ्नपरिखण्डनचण्डदण्ड-
माखण्डलादिसुरनायकवृन्दवन्द्यम् ॥ १॥

प्रातर्नमामि चतुराननवन्द्यमान-
मिच्छानुकूलमखिलं च वरं ददानम् ।
तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं
पुत्रं विलासचतुरं शिवयोः शिवाय ॥ २॥

प्रातर्भजाम्यभयदं खलु भक्तशोक-
दावानलं गणविभुं वरकुञ्जरास्यम्।
अज्ञानकाननविनाशनहव्यवाह-
मुत्साहवर्धनमहं सुतमीश्वरस्य ॥ ३॥

श्लोकत्रयमिदं पुण्यं सदा साम्राज्यदायकम् ।
प्रातरुत्थाय सततं यः पठेत्प्रयतः पुमान् ॥ ४॥

कराग्रे सत्प्रभा बुद्धिः कमला करमध्यगा ।
करमूले मयूरेशः प्रभाते करदर्शनम् ॥

ज्ञानरूपवराहस्य पत्नि कर्मस्वरूपिणि ।
सर्वाधारे धरे नौमि पादस्पर्शं क्षमस्व मे ॥

तारश्रीनर्मदादूर्वाशमीमन्दारमोदित ।
द्विरदास्य मयूरेश दुःस्वप्नहर पाहि माम् ॥

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

गणनाथसरस्वतीरविशुक्रबृहस्पतीन् ।
पञ्चैतानि स्मरेन्नित्यं वेदवाणीप्रवृत्तये ॥

विनायकं गुरुं भानुं ब्रह्मविष्णुमहेश्वरान् ।
सर्स्वतीं प्रणौम्यादौ सर्वकार्यार्थसिद्धये ॥

अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥

अगजानपद्मार्कं गजाननमहिर्निशम् ।
अनेकदं तं भक्तानामेकदन्तमुपास्महे ॥

नमस्तस्मै गणेशाय यत्कण्डः पुष्करायते ।
यदाभोगधनध्वान्तो नीलकण्ठस्य ताण्डवे ॥

कार्यं मे सिद्धिमायातु प्रसन्ने त्वयि धातरि ।
विघ्नानि नाशमायान्तु सर्वाणि सुरनायक ॥

नमस्ते विघ्नसंहर्त्रे नमस्ते ईप्सितप्रद ।
नमस्ते देवदेवेश नमस्ते गणनायक ॥

॥ इति श्रीगणेश प्रातः स्मरणम् ॥

एक टिप्पणी भेजें

0टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!