श्री राजराजेश्वरी कवचम् Shri Rajrajeshwari Kavacham

M Prajapat
0
श्री राजराजेश्वरी कवचम् Shri Rajrajeshwari Kavacham
श्री राजराजेश्वरी कवचम्

श्री राजराजेश्वरी कवचम् Shri Rajrajeshwari Kavacham

।। अथ श्रीराजराजेश्वरीकवचम् ।।

श्रीगन्धर्वतन्त्रे महात्रिपुरसुन्दरीत्रैलोक्यमोहनाख्यः चतुर्थः पटलः ॥
पार्वती उवाच-
देवदेव महादेव लोकानां हितकारक ।
यत् सूचितं पुरा नाथ किमर्थं न प्रकाशितम् ॥ १॥

राजराजेश्वरीदेव्यास्त्रिपुरायाः शुभावहम् ।
कवचं यदि मे प्रीतः कथयस्व वृषध्वज ॥ २॥

ईश्वर उवाच-
लक्षवारसहस्राणि वारितासि पुनः पुनः ।
स्त्रीस्वभावान्महादेवि ! पुनस्त्वं परिपृच्छसि ॥ ३॥

अत्यन्तं दुर्लभं गुह्यं कवचं सर्वकामदम् ।
तथापि कथयाम्यद्य तव प्रीत्या वरानने ॥ ४॥

त्रैलोक्यमोहनं नाम त्रिषु लोकेषु दुर्लभम् ।
सर्वसौभाग्यजननं भोगमोक्षफलप्रदम् ॥ ५॥

यत् कृत्वा दानवान् विष्णुर्निजघान सुदारुणान् ।
लोकान् वितनुते ब्रह्मा संहर्ताऽहं यतः प्रिये ॥ ६॥

धनाधिपः कुबेरोऽपि यतः सर्वे दिगीश्वराः ।
नैतत् परतरं गुह्यं प्रतिजानीहि पार्वति ॥ ७॥

वेदशास्त्रपुराणेषु सारमेतद् वरानने ।
पुत्रदारादिसहितं शिरो देयं कथञ्चन ॥ ८॥

न देयं कवचं गुह्यं प्राणैः कण्ठगतैरपि ।
श‍ृणु सर्वाङ्गसुभगे दिव्यं कवचमुत्तमम् ॥ ९॥

राजराजेश्वरीदेव्याः कवचस्य ऋषिः शिवः ।
छन्दो विराड् देवता च महात्रिपुरसुन्दरी ॥ १०॥

हंसः शक्तिः पराबीजं रमाबीजं च कीलकम् ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ११॥

त्रिपुरा त्रिविधा पातु मम सर्वार्थसिद्धये ।
ऐं क्लीं सौः वदने बाला पातु सर्वार्थसिद्धिदा ॥ १२॥

कण्ठं पातु महादेवी श्रीमत्त्रिपुरभैरवी ।
हृदयेऽव्यान्महेशानी महात्रिपुरसुन्दरी ॥ १३॥

राजराजेश्वरी विद्या षोडशी या महोदया ।
ब्रह्मरन्ध्रे सदा पातु कमला परमेश्वरी ॥ १४॥

गिरिराजसुता देवी पातु नित्यं च शीर्षके ।
कामबीजं ललाटेऽव्याद् वाग्बीजं कण्ठदेशके ॥ १५॥

सौः पातु तथा पार्श्वे प्रणवो बाहुमूलके ।
शम्भुप्रिया सदा पातु बाहुदक्षिणसव्ययोः ॥ १६॥

विष्णुप्रिया सदा पातु मणिबन्धद्वये तथा ।
पार्वतीशः करे पातु नेत्रे नक्षत्रवल्लभः ॥ १७॥

श्रोत्रे रतिप्रियः पातु घ्राणे शक्रः सदाऽवतु ।
पृष्ठदेशे सदा पातु पार्वती परमेश्वरी ॥ १८॥

ह्रसौः श्वासे च निःश्वासे पातां परमसिद्धिदौ ।
कामः कामे सदा पातु पिनाकी लिङ्गगोचरे ॥ १९॥

पृथ्वी सर्वांशके पातु हृल्लेखा हृदयेऽवतु ।
स्तनौ भृगुप्रिया पातु कुक्षौ च स पुरान्तकः ॥ २०॥

नेत्रे वज्रधरः पातु माया वै जठरेऽवतु ।
पदद्वन्द्वे च सौः पातु ऐं जिह्वानिलयेऽवतु ॥ २१॥

क्लीङ्कारः सर्वदा पातु दन्तौष्ठयोर्वरानने ।
शीर्षादिपादपर्यन्तं सर्वाङ्गं भुवनेश्वरी ॥ २२॥

रक्षाहीनं च यत् स्थानं वर्जितं कवचेन तु ।
तत् सर्वं परमेशानि ! पातु नित्यं हरिप्रिया ॥ २३॥

आधारे वाग्भवः पातु कामराजो हृदि प्रिये ।
शक्तिकूटं तथा पातु भ्रुवोर्मध्ये च पार्वति ॥ २४॥

शीर्षे कूटत्रयं पातु ललाटे सर्वमन्त्रकः ।
अष्टाविंशतिवर्णेयं मुखवृत्ते सदाऽवतु ॥ २५॥

षोडशीयं महाविद्या ब्रह्मविद्यैव केवला ।
भोगमोक्षप्रदा देवी केवलात्मस्वरूपिणी ॥ २६॥

कामेश्वरी ललाटेऽव्यान्मुखेषु भगमालिनी ।
दक्षनेत्रे सदा पातु नित्यक्लिन्ना महोदया ॥ २७॥

भेरुण्डा वामनेत्रेऽव्यात् कर्णे वै वह्निवासिनी ।
महाविद्येश्वरी पातु वामकर्णप्रदेशके ॥ २८॥

दक्षनासापुटे पातु शिवदूती महेश्वरी ।
वामनासापुटे पातु त्वरिता सर्वसिद्धिदा ॥ २९॥

दक्षगण्डे सदा पातु नित्यं मां कुलसुन्दरी ।
त्रैलोक्यविमला पातु वामगण्डप्रदेशके ॥ ३०॥

ओष्ठे नीलपताकाऽव्यादधरे विजयाऽवतु ।
ऊर्ध्वदन्ते सदा पातु देवी मां सर्वमङ्गला ॥ ३१॥

अधोदन्तप्रदेशेऽव्यान्नित्यं ज्वालांशुमालिनी ।
विचित्रा सर्वदा पातु नित्यं मूर्द्धनि पार्वति ॥ ३२॥

आसां प्रधानभूता या महात्रिपुरसुन्दरी ।
षोडशी सा सदा पातु मुखे वै परमेश्वरी ॥ ३३॥

पृष्ठदेशे सदा पान्तु गुरवस्त्रिविधाश्च ते ।
पादयोः सर्वदा पातु त्रिपुरा परमेश्वरी ॥ ३४॥

अनुदेशे सदा पातु देवी मां त्रिपुरेश्वरी ।
ऊरुद्वये सदा पातु देवी त्रिपुरसुन्दरी ॥ ३५॥

त्रिपुरवासिनी देवी कटिदेशे सदाऽवतु ।
त्रिपुराश्रीश्च मां नित्यं गुह्यदेशे सदाऽवतु ॥ ३६॥

मूलाधारे सदा पातु देवी त्रिपुरमालिनी ।
नाभौ त्रिपुरसिद्धाऽव्यात् त्रिपुरा च सदा हृदि ॥ ३७॥

ब्रह्मरन्ध्रे सदा पातु महात्रिपुरसुन्दरी ।
आसां तु मन्त्रबीजानि प्रोक्तस्थानेषु विन्यसेत् ॥ ३८॥

पाषण्डगणमध्ये तु बुद्धो मां परिरक्षतु ।
ब्रह्माऽव्याद् ब्रह्मसंहा[घा]ते शिवो मां योगसिद्धये ॥ ३९॥

ज्ञाने मां भास्करः पातु मोक्षे नारायणः प्रभुः ।
या शक्तिः सर्वभूतानां विद्याऽविद्येति गीयते ॥ ४०॥

सा शक्तिः सर्वदा पातु स्त्रीपुत्रधनसम्पदि ।
अणिमा पश्चिमे पातु लघिमा चोत्तरेऽवतु ॥ ४१॥

पूर्वतः पातु महिमा ईशित्वा दक्षिणेऽवतु ।
वशित्वा वायुनिलये ईशे प्राकाम्यसिद्धिदा ॥ ४२॥

भुक्तिसिद्धिस्तथाग्नेये पात्विच्छासिद्धी राक्षसे ।
अधः पातु प्राप्तिसिद्धिर्मोक्ष सिद्धिस्तथोर्ध्वके ॥ ४३॥

ब्रह्माणी सन्ध्ययोः पातु माहेश्वरी दिवाऽवतु ।
मध्याह्ने पातु कौमारी रात्रौ च शत्रुवल्लभा ॥ ४४॥

ब्राह्मे मुहूर्त्तके पातु वैष्णवी सर्वसिद्धिदा ।
निशीथे पातु वाराही चामुण्डा शत्रुविग्रहे ॥ ४५॥

महोत्साहे महालक्ष्मीः पातु नित्य महेश्वरी ।
शीर्षे सङ्क्षोभणी पातु तारिणी हृदयेऽवतु ॥ ४६॥

आकर्षणी शिखायां तु कवचे पातु वश्यदा । (आकर्षिणी)
उन्मादिनी तथा नेत्रे सर्वगात्रे महाङ्कुशा ॥ ४७॥

त्रिखण्डा भुजयोः पातु बीजे बीजस्वरूपिणी ।
खेचरी पादयोः पातु योनिमुद्रा च सर्वतः ॥ ४८॥

स[का]माकर्षणरूपाऽव्यात् सदाऽऽकर्षणकर्मणि ।
बुद्ध्याकर्षणरूपाऽव्यात् परबुद्धिविकर्षणे ॥ ४९॥

अहङ्कारे सदा पातु अहङ्कारविकर्षणी ।
शब्दाकर्षणरूपाऽव्याच्छब्दाकर्षणकर्मणि ॥ ५०॥

स्पर्शाकर्षणरूपा मां पातु स्पर्शनकर्मणि ।
रूपाकर्षणरूपाऽव्यात् पररूपविकर्षणे ॥ ५१॥

रसाकर्षणरूपाऽव्याद् रसे वै परमेश्वरी । (रसाकर्षद)
गन्धाकर्षणरूपा मां पातु गन्धे च सर्वदा ॥ ५२॥

चित्ताकर्षणरूपा मां पायादाकृष्टिकर्मणि ।
धैर्याकर्षणरूपा तु पातु धैर्यविधौ सदा ॥ ५३॥

स्मृत्याऽऽकर्षणरूपाऽव्याज्ज्ञानाकर्षणकर्मणि ।
नामाकर्षणरूपाऽव्यान्नामव्याहरणे सदा ॥ ५४॥

बीजाकर्षणरूपा मां सर्वबीजप्ररोपणे ।
परजीवाकर्षणे पातु आत्माकर्षणरूपिणी ॥ ५५॥

अमृताकर्षणी पातु अमृतीकरणी सदा ।
शरीराकर्षणी पातु सदा शरीररक्षणे ॥ ५६॥

अनङ्गकुसुमा पातु पुरतः सर्वकर्मणि ।
अनङ्गमेखला पातु पृष्ठतः परमेश्वरी ॥ ५७॥

अनङ्गमदना पातु वामतो मे महेश्वरी ।
दक्षिणे सर्वदा पातु अनङ्गमदनातुरा ॥ ५८॥

नित्यं चाऽनङ्गरेखाऽव्यादूर्द्ध्वं(?) मम सदा प्रिये ।
अनङ्गवेगिनी पातु अधो परमेश्वरी ॥ ५९॥

तथाऽनङ्गाङ्कुशा नित्यं पातु मां दिक्षु सर्वदा ।
अनङ्गमालिनी पातु विदिक्षु मम सर्वदा ॥ ६०॥

सर्वसङ्क्षोभणी चोर्ध्वे पातु मां जगदीश्वरी ।
सर्वविद्राविणी चाधो दिक्षु सर्वविकर्षिणी ॥ ६१॥

सर्वाह्लादकरी शक्तिर्विदिक्षु परिरक्षतु ।
सर्वसम्मोहिनी पातु समन्तात् परमेश्वरी ॥ ६२॥

अन्तर्बहिश्च मां पातु सर्वस्तम्भनकर्मणि ।
तथैव पातु मां नित्यमाकाशे सर्वजृम्भणी ॥ ६३॥

पाताले चैव मां पातु सर्ववश्यकरी तथा ।
देवलोके सदा पातु सर्वरञ्जनकारिणी ॥ ६४॥

सर्वोन्मादनशक्तिर्मां भूतले परिरक्षतु ।
सर्वार्थसाधनी शक्तिः पायाद् भूतगणालये ॥ ६५॥

सिद्धानामालये पातु सर्वसम्पत्तिपूरणी ।
राक्षसानां च यक्षाणां सर्वमन्त्रमयी गृहे ॥ ६६॥

असुराणां निवासे तु सर्वद्वन्द्वक्षयङ्करी ।
सर्वसिद्धिप्रदा देवी पातु राजगृहे सदा ॥ ६७॥

सर्वसम्पत्प्रदा पातु स्वगृहे सर्वसम्पदि ।
सर्वप्रियङ्करी पातु सर्वलोकेषु सर्वदा ॥ ६८॥

सर्वमङ्गलकार्येऽव्यात् सर्वमङ्गलकारिणी ।
सर्वकामप्रदा देवि ! सर्वकार्येषु सर्वदा ॥ ६९॥

ऐश्वर्ये सर्वदा पातु सर्वैश्वर्यप्रदायिनी ।
सर्वमृत्युप्रशमनी पायान्नित्यं यमालये ॥ ७०॥

सर्वारम्भे सदा पातु सर्वविघ्नविनाशिनी ।
देहसौन्दर्यकाले तु पातु सर्वाङ्गसुन्दरी ॥ ७१॥

सर्वसौभाग्यकाले तु सर्वसौभाग्यदायिनी ।
सर्वज्ञा च गृहे पातु सर्वशक्तिमयी रणे ॥ ७२॥

सर्वैश्वर्यप्रदा मार्गे सर्वज्ञानमयी जले ।
सर्वव्याधिषु सर्वत्र सर्वव्याधिविनाशिनी ॥ ७३॥

पर्वते पातु प्रबला सर्वाधारस्वरूपिणी ।
सर्वपापहरा पातु सर्वकर्मसु सर्वदा ॥ ७४॥

सर्वानन्दकरी देवी नानासुकृतगोचरे ।
सर्ववैरिभये पातु सर्वरक्षास्वरूपिणी ॥ ७५॥

सर्वसङ्कल्पकार्येषु सर्वेप्सितफलप्रदा ।
वशिनी ' वश्यकार्येषु कामेशी स्तम्भनेऽवतु ॥ ७६॥

मोहने मोहिनी पातु विमलोच्चाटनेऽवतु ।
अरुणा पातु मां वादे जयिनी जल्पकर्मणि ॥ ७७॥

सर्वेश्वरी काम्यकार्ये कौलिनी भेदकर्मणि ।
जृम्भणे सर्वदा पान्तु शराः पञ्च महेश्वरि ॥ ७८॥

धनुर्मोहविधौ पातु पाशस्तु पश्यकर्मणि ।
महातेजोमयः पातु स्तम्भने मां तथाऽङकुशः ॥ ७९॥

सर्वज्ञा हृदये पातु नित्यकृत्या च शीर्षके ।
अनादिबोधिका पातु नित्यं शिखाप्रदेशके ॥ ८०॥

कवचे मां स्वतन्त्राऽव्यान्नेत्रे नित्यमलुप्तिका ।
अचिन्त्यशक्तिरस्त्रेषु पायात् परमसिद्धिदा ॥ ८१॥

कामेश्वरी रतौ पातु युद्धे वज्रेश्वरी तथा ।
नित्यं पातु महेशानि श्रीकामे भगमालिनी ॥ ८२॥

रसे रूपे च गन्धे च शब्दे स्पर्शे च पातु माम् ।
सर्वानन्दमयी देवी महात्रिपुरसुन्दरी ॥ ८३॥

ईशाने वटुकः पातु आग्नेय्यां योगिनीगणः ।
त्वगसृङ्मासमेदोऽस्थिमज्जाशुक्राणि पान्तु नः ॥ ८४॥

क्षेत्रेशो नैरृते(?) पातु गणेशो वायुमन्दिरे ।
मातङ्गवनिता पातु शेषिका कुलसुन्दरी ॥ ८५॥

शक्तिर्मां सर्वदा पातु मूलाधारनिवासिनी ।
इतीदं कवचं देवि ! त्रिषु लोकेषु दुर्लभम् ॥ ८६॥

यन्नोक्तं डामरे तन्त्रे यन्नोक्तं रुद्रयामले ।
सर्वतन्त्रेषु यन्नोक्तं गन्धर्वे प्रकटीकृतम् ॥ ८७॥

तव प्रीत्या महादेवि ! गोपनीयं प्रयत्नतः ।
तव नाम्नि स्मृते देवि ! सर्वयज्ञफलं लभेत् ॥ ८८॥

सर्वत्रैव जयप्राप्तिर्वाञ्छा सर्वत्र सिध्यति ।
नाम्नः शतगुणं स्तोत्रं व्याख्यानं चापि तच्छ्रुतम् ॥ ८९॥

तस्माच्छतगुणं ध्यानं ध्यानाच्छतगुणो मनुः ।
मन्त्राच्छतगुणं देवि ! कवचं ते मयोदितम् ॥ ९०॥

यस्मै कस्मै न दातव्यं सुगोप्यमतिदुर्लभम् ।
न देयं परशिष्याय कृपणाय सुरेश्वरि ॥ ९१॥

शिष्याय भक्तिहीनाय चुम्बकाय तथैव च ।
गुरुभक्तिविहीनाय परहिंसारताय च ॥ ९२॥

निन्दकाय कुशीलाय दाम्भिकाय महेश्वरि ।
अभक्तेभ्योऽपि पुत्रेभ्यो दत्वा मृत्युमवाप्नुयात् ॥ ९३॥

यो ददाति निषिद्धेभ्यः कवचं मन्मुखाच्च्युतम् ।
तस्य नश्यन्ति देवेशि ! विद्याऽऽयुः कीर्तिसञ्चयाः ॥ ९४॥

तं हिंसन्ति च योगिन्यो मदीयशासनात् प्रिये ।
परे नरकमाप्नोति जन्मकोटिशतानि च ॥ ९५॥

सर्वलक्षणयुक्ताय मन्त्रयन्त्ररताय च ।
शिष्याय शान्तचित्ताय गुरुभक्तिरताय च ॥ ९६॥

उदके लवणं लीनं यथा भवति पार्वति ।
मनो भवति वै लीनं पादयोः श्रीगुरोः प्रिये ॥ ९७॥

देयं महद् गुह्यं कृपया चातिदुर्लभम् ।
गुरोः पादप्रसादेन श्रीविद्या यदि लभ्यते ॥ ९८॥

तथैव कवचं देवि ! त्रिषु लोकेषु दुर्लभम् ।
स च देवो हरः साक्षात् तत्पत्नी परमेश्वरी ॥ ९९॥

प्रमादादपि देवेशि ! श्रीगुरोर्नाम नाददेत् ।
यस्य भक्तिर्गुरौ नित्यं वर्तते देववत् प्रिये ॥ १००॥

तस्य मन्त्रस्य यन्त्रस्य सिद्धिर्भवति नान्यथा ।
कवचस्य तथा सिद्धिर्गुटिकायाश्च सुन्दरि ॥ १०१॥

इदं कवचमज्ञात्वा यो जपेत् सुन्दरी पराम् ।
नवलक्षं प्रजप्त्वापि तस्य विद्या न सिद्ध्यति ॥ १०२॥

शुचिः समाहितो भूत्वा भक्तिश्रद्धासमन्वितः ।
सर्वभूतालये सुप्ते निशायामर्द्धरात्रके ॥ १०३॥

हेतुयुक्तो महेशानि! निर्जने पशुवर्जिते ।
रक्तासनोपविष्टस्तु रक्ताभरणभूषितः ॥ १०४॥

ताम्बूलपूरितमुखो धूपामोदसुगन्धितः ।
संस्थाप्य वामभागे तु शक्तिं स्वामिपरायणाम् ॥ १०५॥

रक्तवस्त्रपरीधानां शिवमन्त्रधरां शुभाम् ।
या शक्तिः सा महादेवी हररूपस्तु साधकः ॥ १०६॥

अन्योन्यचिन्तनाद् देवि! देवत्वमुपजायते ।
शक्तियुक्तो यजेद् देवीं श्रीचक्रे लक्षणान्विते ॥ १०७॥

पुष्पाञ्जलित्रयं देव्यै मूलमन्त्रेण दापयेत् ।
भोगैश्च मधुपर्काद्यैस्ताम्बूलाद्यैः सुवासितैः ॥ १०८॥

पूजयित्वा महादेवीं पूजाकोटिफलं लभेत् ।
पूर्वोक्तन्यासमेवास्मिन् समये च प्रविन्यसेत् ॥ १०९॥

आत्मानं परमं ध्यायेद् दिव्यस्त्रीभिरलङ्कृतम् ।
दिव्यं मूर्ध्नि महच्छत्रं सहस्रदलनिर्मितम् ॥ ११०॥

सुधावर्षिमुखाम्भोजं सस्मितं दिव्यवर्चसम्! ।
परमानन्दसन्दोहमुदितं परमाव्ययम् ॥ १११॥

दिव्यालङ्कारवस्त्राढ्यं दिव्यमाल्यानुलेपितम् ।
दिव्यासनसमासीनं दिव्यभोगविभोगिनम् ॥ ११२॥

सर्वगं सर्वभूतेशं सृष्टिस्थित्यन्तकारिणम् ।
निर्लेपं निर्मलं शान्तं सर्वव्यापिनमीश्वरम् ॥ ११३॥

ततो देवी हृदम्भोजे ध्यायेत् तद्गतमानसः ।
जपाकुसुमसङ्काशां बालार्ककिरणारुणाम् ॥ ११४॥

रक्तपद्मसमासीनां रक्ताभरणभूषिताम् ।
रक्तवस्त्रपरीधानां पूर्णचन्द्रनिभाननाम् ॥ ११५॥

सैवाहमित्यभेदेन द्वैतहीनं विचिन्तयेत् ।
अद्वैतानन्दभावेन साधकः परमात्मनः ॥ ११६॥

छायया शोणया व्याप्तं जगदेतच्चराचरम् ।
भावनावशसम्पन्नो भावयेद् भावतः परम् ॥ ११७॥

एवं चिन्तापरस्याऽऽशु सिद्धयोऽष्टौ भवन्ति हि ।
सम्प्राप्य विपुलान् भोगान् राज्यास्पदञ्च भूतले ॥ ११८॥

ऐन्द्र पदमवाप्याथ ' विहरेन्नन्दने वने ।
उर्वशीप्रमुखाभिश्च स्वेच्छया दिव्यभोगवान् ॥ ११९॥

तदाप्नोति परं स्थानं दुरापं त्रिदशैरपि ।
ततस्तु कवचं दिव्यं पठेदेकमनाः प्रिये ॥ १२०॥

तस्य सर्वार्थसिद्धिः स्यान्नात्र कार्या विचारणा ।
इदं रहस्यं परमं परं स्वस्त्ययनं महत् ॥ १२१॥

सर्वेषामेव हिंस्राणां डाकिनीनां महेश्वरि ।
निशाचरगणानाञ्च वारणं नाशनं तथा ॥ १२२॥

आयुर्बलप्रदं नित्यं तुष्टिपुष्टिशुभावहम् ।
नारीणां मृतवत्सानां गुणवत्सुतदायकम् ॥ १२३॥

सूत्या सूतिगृहस्यापि बालग्रहनिवारणम् ।
विषदस्युग्रहाणाञ्च सदा शान्तिविवर्द्धनम् ॥ १२४॥

विषशस्त्राऽग्निरुद्राणां वारणं जयदं युधि ।
जले स्थले तथाऽऽकाशे सर्वोत्पातेषु सर्वदा ॥ १२५॥

त्रैलोक्यवासिनामेव सर्वमङ्गलदायकम् ।
सकृद् यस्तु पठेद् देवि ! कवचं देवदुर्लभम् ॥ १२६॥

हयमेधफलं तस्य भवत्येव संशयः ।
नित्यं यस्तु पठेद् देवि श‍ृणुयाद् वा समाहितः ॥ १२७॥

स सर्वान् लभते कामान् परे देवीपुरं व्रजेत् ।
सङ्ग्रामे च जयेच्छत्रून् मातङ्गानिव केशरी ॥ १२८॥

दहेत् तृणं यथा वह्निस्तथा शत्रून् जयेत् सदा ।
नास्त्राणि तस्य शस्त्राणि शरीरे प्रभवन्ति च ॥ १२९॥

तद्गात्रं प्राप्य शस्त्राणि ' ब्रह्मास्त्रादीनि यानि च ।
माल्यानि कुसुमानीव सुखदानि भवन्ति हि ॥ १३०॥

पराः पराङ्मुखा यान्ति विना युद्धेन पार्वति ।
व्याधिस्तस्य कदाचित् तु दुःखं नास्ति कदाचन ॥ १३१॥

गतिस्तस्यैव सर्वत्र वायोस्तुल्या सदा भवेत् ।
दीर्घायुः कामभोगीशो धनधान्यसमृद्धिमान् ॥ १३२॥

जितव्याधी रूपवान् स्याद् गुणवानभिजायते ।
चातुर्वर्ग्यं करे तस्य भवत्येव न संशयः ॥ १३३॥

अन्यस्य वल्लभः सो वै पुत्रदारकुलान्वितः ।
इहलोके सुखं भुक्त्वा परे मुक्तो भविष्यति ॥ १३४॥

न तस्य दुर्गतिर्देवि ! कदाचिदपि जायते ।
दुर्ग्रहाः सुग्रहा यान्ति वशं गच्छन्ति मानवाः ॥ १३५॥

न तस्य विघ्नो भवति न शोको भुवि जायते ।
वेतालाश्च पिशाचाश्च राक्षसाश्च भयानकाः ॥ १३६॥

ते सर्वे विलयं यान्ति कवचस्यास्य कीर्तनात् ।
तस्यैव शत्रवो देवि ! चिन्तामात्रप्रयोगतः ॥ १३७॥

विनश्यन्ति न सन्देहो योगिन्यो भक्षयन्ति तान् ।
शान्तिकादीनि कर्माणि मारणोच्चाटनानि च ॥ १३८॥

वचोमात्रेण देवेशि ! तस्य सिध्यन्ति भूतले ।
न पापैर्लिप्यते देवि ! महोग्रैस्तु सुदारुणैः ॥ १३९॥

न कालस्य वशं गच्छेन्न जरा न च दुःखिता ।
तत्र देशे न दुर्भिक्षं न च मारी प्रवर्तते ॥ १४०॥

न रोगास्तत्र जायन्ते नोत्पाताः प्रभवन्ति च ।
विविधाश्चैव योगिन्यस्तस्य साधकसन्निधौ ॥ १४१॥

शान्ति चैव प्रयच्छन्ति रक्षन्ति पुत्रवत् सदा ।
सर्वदा च सुखप्राप्तिः सर्वतीर्थफलं लभेत् ॥ १४२॥

नानेन सदृशः कश्चित् साधको भुवि जायते ।
सुरासुरमनुष्याणां तत्त्वरूपः सुखावहः ॥ १४३॥

येन विज्ञातमात्रेण स्मृतेनैव च सुन्दरि ।
अक्षयान् लभते कामान् मुक्तिस्थानं च गच्छति ॥ १४४॥

सर्वलक्षणहीनोऽपि स्मरणात् ' कलुषापहः ।
अहो कवचमाहात्म्य पठमानस्य नित्यशः ॥ १४५॥

विनापि योगचर्येण योगिनां समतां व्रजेत् ।
भूर्जत्वचि समालिख्य चक्रं तत्त्वविनिर्मितम् ॥ १४६॥

मध्ये त्रिकोणं संलिख्य साध्यसाधकयोर्लिपिम् ।
तदूर्ध्वे मूलमन्त्रञ्च मातृकार्णेन वेष्टयेत् ॥ १४७॥

अगुरुद्रवमिश्रेण चन्दनेन सुगन्धिना ।
एतद् यन्त्रम् महादेवि ! सुरासुरसुदुर्लभम् ॥ १४८॥

रोचनाकुडकुमेनैव तद्बाह्ये कवचं लिखेत् ।
श्वेतसूत्रेण संवेष्ट्य लाक्षया परिवेष्टयेत् ॥ १४९॥

पञ्चामृतैः पञ्चगव्यैः स्नापयित्वा शुभेऽहनि ।
सम्पूज्य देवीरूपां तां गुटिकां सर्वकामदाम् ॥ १५०॥

प्राणप्रतिष्ठामन्त्रेण प्राणांस्तत्र निवेशयेत् ।
चारुणा शाक्तकुम्भेन भूषितां योनिमुद्रया ॥ १५१॥

अन्तर्योनिं ततो ध्यात्वा तत्र संस्थापयेद् बुधः ।
एषा तु गुटिका देवि ! कण्ठलग्ना धनप्रदा ॥ १५२॥

शीर्षे वश्यकरी देवि ! कट्यां स्तम्भनकारिणी ।
बद्धा वामभुजे चैव वैरिपक्षविनाशिनी ॥ १५३॥

जठरे रोगशमनी पुत्रदा हृदिसंस्थिता ।
विद्याकरी ललाटस्था शिखायां तु यशःप्रदा ॥ १५४॥

दक्षिणे बाहुमूले वै यदि तिष्ठति सर्वदा ।
तदा सर्वार्थसिद्धिः स्याद् यद्यन्मनसि वर्तते ॥ १५५॥

सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः ।
न शक्नोमि प्रभावं हि कथितुं कवचस्य वै ॥ १५६॥

एतत्तु कवचेनैव पठनं साधनं प्रिये ।
कथितं मे तव स्नेहाद् गोपनीय सदा भुवि ॥ १५७॥

 ॥ इति श्रीराजराजेश्वरीकवचं सम्पूर्णम् ।

 ॥ इति श्रीगन्धर्वतन्त्रे महात्रिपुरसुन्दरीत्रैलोक्यमोहनाख्यः
      चतुर्थः पटलः ॥ ४॥

RAJRAJESHWARI KAVACHAM श्रीराजराजेश्वरीकवचम् ( श्री गुरु श्रीशिवदत्त स्मारक गड्डी, जोधपुर)


एक टिप्पणी भेजें

0टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!