अथ श्री कृष्ण स्तोत्रं इन्द्ररचितम् (Indra Rachita Shri Krishna Stotram)

M Prajapat
0

अथ श्री कृष्ण स्तोत्रं इन्द्ररचितम् (Indra Rachita Shri Krishna Stotram)

।। श्रीकृष्णस्तोत्रं ।।

श्री गणेशाय नमः ।।

इन्द्र उवाच:-
अक्षरं परमं ब्रह्म ज्योतीरूपं सनातनम् ।
गुणातीतं निराकारं स्वेच्छामयमनन्तजम् ॥१॥

भक्‍तध्यानाय सेवायै नानारूपधरं वरम् ।
शुक्लरक्‍तपीतश्यामं युगानुक्रमणेन च ॥२॥

शुक्लतेजःस्वरूपं च सत्ये सत्यस्वरूपिणम् ।
त्रेतायां कुङ्कुमाकारं ज्वलन्तं ब्रह्मतेजसा ॥३॥

द्वापरे पीतवर्णं च शोभितं पीतवाससा ।
कृष्णवर्णं कलौ कृष्णं परिपूर्णतमं प्रभुम् ॥४॥

नवधाराधरोत्कृष्टश्यामसुन्दरविग्रहम् ।
नन्दैकनन्दनं वन्दे यशोदानन्दनं प्रभुम् ॥५॥

गोपिकाचेतनहरं राधाप्राणाधिकं परम् ।
विनोदमुरलीशब्दं कुर्वन्तं कौतुकेन च ॥६॥

रूपेणाप्रतिमेनैव रत्‍नभूषणभूषितम् ।
कन्दर्पकोटिसौन्दर्यं विभ्रतं शान्तमीश्वरम् ॥७॥

क्रीडन्तं राधया सार्धं वृन्दारण्ये च कुत्रचित् ।
कृत्रचिन्निर्जनेऽरण्ये राधावक्षःस्थलस्थितम् ॥८॥

जलक्रीडां प्रकुर्वन्तं राधया सह कुत्रचित् ।
राधिकाकबरीभारं कुर्वन्तं कुत्रचिद्वने ॥९॥

कुत्रचिद्राधिकापादे दत्तवन्तमलक्‍तकम् ।
राधार्चवितताम्बूलं गृह्णन्तं कुत्रचिन्मुदा ॥१०॥

पश्यन्तं कुत्रचिद्राधां पश्यन्तीं वक्रचक्षुषा ।
दत्तवन्तं च राधायै कृत्वा मालां च कुत्रचित् ॥११॥

कुत्रचिद्राधया सार्धं गच्छन्तं रासमण्डलम् ।
राधादत्तां गले मालां धृतवन्तं च कुत्रचित् ॥१२॥

सार्धं गोपालिकाभिश्च विहरन्तं च कुत्रचित् ।
राधां गृहीत्वा गच्छन्तं तां विहाय च कुत्रचित् ॥१३॥

विप्रपत्‍नीदत्तमन्नं भुक्‍तवन्तं च कुत्रचित् ।
भुक्‍तवन्तं तालफलं बालकैः सह कुत्रचित् ॥१४॥

वस्त्रं गोपालिकानां च हरन्तं कुत्रचिन्मुदा ।
गवां गणं व्याहरन्तं कुत्रचिद्बालकैः सह ॥१५॥

कालीयमूर्ध्‍नि पादाब्‍जं दत्तवन्तं च कुत्रचित् ।
विनोदमुरलीशब्दं कुर्वन्तं कुत्रचिन्मुदा ॥१६॥

गायन्तं रम्यसङ्गीतं कुत्रचिद्बालकैः सह ।
स्तुत्वा शक्रः स्तवेन्द्रेण प्रणनाम हरिं भिया ॥१७॥

पुरा दत्तेन गुरुणा रणे वृत्रासुरेण च ।
कृष्णेन दत्तं कृपया ब्रह्मणे च तपस्यते ॥१८॥

एकादशाक्षरो मन्‍त्रः कवचं सर्वलक्षणम् ।
दत्तमेतत्कुमाराय पुष्करे ब्रह्मणा पुरा ॥१९॥

तेन चाङ्गिरसे दत्तं गुरवेऽङ्गिरसा मुने ।
इदमिन्द्रकृतं स्तोत्रं नित्यं भक्‍त्या च यः पठेत् ॥२०॥

इह प्राप्य दृढां भक्‍तिमन्ते दास्यं लभेद्‍ध्रुवम् ।
जन्ममृत्युजराव्याधिशोकेभ्यो मुच्यते नरः ॥२१॥

न हि पश्यति स्वप्नेऽपि यमदूतं यमालयम् ॥२२॥

।। इति श्रीब्रह्मवैवर्ते इन्द्रकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।।


एक टिप्पणी भेजें

0टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!