श्री बगलामुखी अष्टोत्तर् शतनाम स्तोत्रम् |
श्री बगलामुखी अष्टोत्तर् शतनाम स्तोत्रम् (Shri Baglamukhi Ashtottar Shatnam Stotram)
॥ श्रीबगला-अष्टोत्तरशतनामस्तोत्रम् ॥
॥ ध्यान ॥
सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोल्लासिनीं
हेमाभाङ्गरुचिं शशाङ्कमुकुटां सच्चम्पकस्त्रग्युताम् ।
हस्तैर्मुद्गरपाशवज्ररसनाः सम्बिभ्रतीं भूषणैः
व्याप्ताङ्गीं बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तयेत् ॥
॥ विनियोग ॥
ॐ अस्य श्रीपीताम्बर्यष्टोत्तरशतनामस्तोत्रस्य सदाशिव ऋषिरनुष्टुप्छन्दः
श्रीपीताम्बरी देवता श्रीपीताम्बरीप्रीतये जपे विनियोगः।
॥ नारद उवाच ॥
भगवन् देवदेवेश सृष्टिस्थितिलयात्मक ।
शतमष्टोत्तरं नाम्नां बगलाया वदाधुना ॥ १ ॥
॥ श्रीभगवानुवाच ॥
शृणु वत्स प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।
पीताम्बर्या महादेव्याः स्तोत्रं पापप्रणाशनम् ॥ २ ॥
यस्य प्रपठनात्सद्यो वादी मूको भवेत्क्षणात् ।
रिपूणां स्तम्भनं याति सत्यं सत्यं वदाम्यहम् ॥ ३ ॥
॥ स्तोत्र ॥
ॐ बगला विष्णुवनिता विष्णुशङ्करभामिनी ।
बहुला वेदमाता च महाविष्णुप्रसूरपि ॥ १ ॥
महामत्स्या महाकूर्मा महावाराहरूपिणी।
नरसिंहप्रिया रम्या वामना बटुरूपिणी ॥ २॥
जामदग्न्यस्वरूपा च रामा रामप्रपूजिता।
कृष्णा कपर्दिनी कृत्या कलहा कलकारिणी ॥ ३॥
बुद्धिरूपा बुद्धभार्या बौद्धपाखण्डखण्डिनी।
कल्किरूपा कलिहरा कलिदुर्गतिनाशिनी ॥ ४ ॥
कोटिसूर्यप्रतीकाशा कोटिकन्दर्पमोहिनी।
केवला कठिना काली कला कैवल्यदायिनी ॥ ५ ॥
केशवी केशवाराध्या किशोरी केशवस्तुता।
रुद्ररूपा रुद्रमूर्ती रुद्राणी रुद्रदेवता ॥ ६ ॥
नक्षत्ररूपा नक्षत्रा नक्षत्रेशप्रपूजिता।
नक्षत्रेशप्रिया नित्या नक्षत्रपतिवन्दिता ॥ ७ ॥
नागिनी नागजननी नागराजप्रवन्दिता ।
नागेश्वरी नागकन्या नागरी च नगात्मजा ॥ ८ ॥
नगाधिराजतनया नगराजप्रपूजिता ।
नवीननीरदा पीता श्यामा सौन्दर्यकारिणी ॥ ९ ॥
रक्ता नीला घना शुभ्रा श्वेता सौभाग्यदायिनी।
सुन्दरी सौभगा सौम्या स्वर्णभा स्वर्गतिप्रदा ॥ १०॥
रिपुत्रासकरी रेखा शत्रुसंहारकारिणी।
भामिनी च तथा माया स्तम्भिनी मोहिनी शुभा ॥ ११॥
रागद्वेषकरी रात्री रौरवध्वंसकारिणी ।
यक्षिणी सिद्धनिवहा सिद्धेशा सिद्धिरूपिणी ॥ १२ ॥
लङ्कापतिध्वंसकरी लङ्केशरिपुवन्दिता ।
लङ्कानाथकुलहरा महारावणहारिणी ॥ १३ ॥
देवदानवसिद्धौघपूजिता परमेश्वरी।
पराणुरूपा परमा परतन्त्रविनाशिनी ॥ १४ ॥
वरदा वरदाराध्या वरदानपरायणा ।
वरदेशप्रिया वीरा वीरभूषणभूषिता ॥ १५ ॥
वसुदा बहुदा वाणी ब्रह्मरूपा वरानना ।
बलदा पीतवसना पीतभूषणभूषिता ॥ १६ ॥
पीतपुष्पप्रिया पीतहारा पीतस्वरूपिणी।
इति ते कथितं विप्र नाम्नामष्टोत्तरं शतम् ॥ १७ ॥
यः पठेत्पाठयेद्वापि शृणुयाद्वा समाहितः ।
तस्य शत्रुः क्षयं सद्यो याति नैवात्र संशयः ॥ १८ ॥
प्रभातकाले प्रयतो मनुष्यः
पठेत्सुभक्त्या परिचिन्त्य पीताम्।
द्रुतं भवेत्तस्य समस्तवृद्धि-
र्विनाशमायाति च तस्य शत्रुः ॥ १९ ॥
श्री बगलामुखी अष्टोत्तर् शतनाम | Baglamukhi Stotram by Madhvi Madhukar
Stotram : Shri Baglamukhi Ashtottar Shatnam StotramSinger : Madhvi Madhukar
Music label: ShubhNir Productions
Music Director: Nikhil Bisht, Rajkumar