श्री लक्ष्मी सहस्त्रनाम |
श्री लक्ष्मी सहस्त्रनाम (Shri Lakshmi Sahasranamam)
॥ अथ श्रीलक्ष्मीसहस्रनामावलिः ॥
- ॐ नित्यागतायै नमः ।
- ॐ अनन्तनित्यायै नमः ।
- ॐ नन्दिन्यै नमः ।
- ॐ जनरञ्जिन्यै नमः ।
- ॐ नित्यप्रकाशिन्यै नमः ।
- ॐ स्वप्रकाशस्वरूपिण्यै नमः ।
- ॐ महालक्ष्म्यै नमः ।
- ॐ महाकाल्यै नमः ।
- ॐ महाकन्यायै नमः ।
- ॐ सरस्वत्त्यै नमः ॥१०॥
- ॐ भोगवैभवसन्धात्र्यै नमः ।
- ॐ भक्तानुग्रहकारिण्यै नमः ।
- ॐ ईशावास्यायै नमः ।
- ॐ महामायायै नमः ।
- ॐ महादेव्यै नमः ।
- ॐ महेश्वर्यै नमः ।
- ॐ हृल्लेखायै नमः ।
- ॐ परमायैशक्त्यै नमः ।
- ॐ मातृकाबीजरुपिण्यै नमः ।
- ॐ नित्यानन्दायै नमः ॥२०॥
- ॐ नित्यबोधायै नमः ।
- ॐ नादिन्यै नमः ।
- ॐ जनमोदिन्यै नमः ।
- ॐ सत्यप्रत्ययिन्यै नमः ।
- ॐ स्वप्रकाशात्मरूपिण्यै नमः ।
- ॐ त्रिपुरायै नमः ।
- ॐ भैरव्यै नमः ।
- ॐ विद्यायै नमः ।
- ॐ हंसायै नमः ।
- ॐ वागीश्वर्यै नमः ॥३०॥
- ॐ शिवायै नमः ।
- ॐ वाग्देव्यै नमः ।
- ॐ महारात्र्यै नमः ।
- ॐ कालरात्र्यै नमः ।
- ॐ त्रिलोचनायै नमः ।
- ॐ भद्रकाल्यै नमः ।
- ॐ कराल्यै नमः ।
- ॐ महाकाल्यै नमः ।
- ॐ तिलोत्तमायै नमः ।
- ॐ काल्यै नमः ॥४०॥
- ॐ करालवक्त्रान्तायै नमः ।
- ॐ कामाक्ष्यै नमः ।
- ॐ कामदायै नमः ।
- ॐ शुभायै नमः ।
- ॐ चण्डिकायै नमः ।
- ॐ चण्डरूपेशायै नमः ।
- ॐ चामुण्डायै नमः ।
- ॐ चक्रधारिण्यै नमः ।
- ॐ त्रैलोक्यजनन्यै नमः ।
- ॐ त्रैलोक्यविजयोत्तमायै नमः ।
- ॐ सिद्धलक्ष्म्यै नमः ।
- ॐ क्रियालक्ष्म्यै नमः ।
- ॐ मोक्षलक्ष्म्यै नमः ।
- ॐ प्रसादिन्यै नमः ।
- ॐ उमायै नमः ।
- ॐ भगवत्यै नमः ।
- ॐ दुर्गायै नमः ।
- ॐ चान्द्र्यै नमः ।
- ॐ दाक्षायण्यै नमः ।
- ॐ प्रत्यङ्गिरसे नमः ॥६०॥
- ॐ धरायै नमः ।
- ॐ वेलायै नमः ।
- ॐ लोकमात्रे नमः ।
- ॐ हरिप्रियायै नमः ।
- ॐ पार्वत्यै नमः ।
- ॐ परमायै नमः ।
- ॐ ब्रह्मविद्याप्रदायिन्यै नमः ।
- ॐ अरूपायै नमः ।
- ॐ बहुरूपायै नमः ।
- ॐ विरूपायै नमः ॥७०॥
- ॐ विश्वरूपिण्यै नमः ।
- ॐ पञ्चभूतात्मिकायै नमः ।
- ॐ वाण्यै नमः ।
- ॐ परमात्मिकायै नमः ।
- ॐ परायै नमः ।
- ॐ कालिम्न्यै नमः ।
- ॐ पञ्चिकायै नमः ।
- ॐ वाग्मिन्यै नमः ।
- ॐ हविषे नमः ।
- ॐ प्रत्यधिदेवतायै नमः ॥८०॥
- ॐ देवमात्रे नमः ।
- ॐ सुरेशानायै नमः ।
- ॐ वेदगर्भायै नमः ।
- ॐ अम्बिकायै नमः ।
- ॐ धृतये नमः ।
- ॐ संख्यायै नमः ।
- ॐ जातयै नमः ।
- ॐ क्रियाशक्त्यै नमः ।
- ॐ प्रकृत्यै नमः ।
- ॐ मोहिन्यै नमः ॥९०॥
- ॐ मह्यै नमः ।
- ॐ यज्ञविद्यायै नमः ।
- ॐ महाविद्यायै नमः ।
- ॐ गुह्यविद्यायै नमः ।
- ॐ विभावर्यै नमः ।
- ॐ ज्योतिष्मत्यै नमः ।
- ॐ महामात्रे नमः ।
- ॐ सर्वमन्त्रफलप्रदायै नमः ।
- ॐ दारिद्र्यध्वंसिन्यै नमः ।
- ॐ हृदयग्रन्थिभेदिन्यै नमः ॥१००॥
- ॐ सहस्रादित्यसङ्काशायै नमः ।
- ॐ चन्द्रिकायै नमः ।
- ॐ चन्द्ररूपिण्यै नमः ।
- ॐ अकारादिक्षकारान्तमातृकायै नमः ।
- ॐ सप्तमातृकायै नमः ।
- ॐ गायत्र्यै नमः ।
- ॐ सोमसम्भूत्यै नमः ।
- ॐ सावित्र्यै नमः ।
- ॐ प्रणवात्मिकायै नमः ।
- ॐ शाङ्कर्यै नमः ॥११०॥
- ॐ वैष्णव्यै नमः ।
- ॐ ब्राह्म्यै नमः ।
- ॐ सर्वदेवनमस्कृतायै नमः ।
- ॐ तस्मै नमः ।
- ॐ दुर्गासेव्यायै नमः ।
- ॐ कुबेराक्ष्यै नमः ।
- ॐ करवीरनिवासिन्यै नमः ।
- ॐ जयायै नमः ।
- ॐ विजयायै नमः ।
- ॐ जयन्त्यै नमः ॥१२०॥
- ॐ अपराजितायै नमः ।
- ॐ कुब्जिकायै नमः ।
- ॐ कालिकायै नमः ।
- ॐ शास्त्र्यै नमः ।
- ॐ वीणापुस्तकधारिण्यै नमः ।
- ॐ सर्वज्ञशक्त्यै नमः ।
- ॐ सर्वज्ञायै नमः ।
- ॐ ब्रह्मविष्णुशिवात्मिकायै नमः ।
- ॐ इडापिङ्गलिकामध्यमृणालितन्तु- रुपिण्यै नमः ।
- ॐ यज्ञेशान्यै नमः ॥१३०॥
- ॐ प्रधायै नमः ।
- ॐ दीक्षायै नमः ।
- ॐ दक्षिणायै नमः ।
- ॐ सर्वमोहिन्यै नमः ।
- ॐ अष्टाङ्गयोगिन्यै नमः ।
- ॐ निर्बीजध्यानगोचरायै नमः ।
- ॐ सर्वतीर्थस्थितायै नमः ।
- ॐ शुद्धायै नमः ।
- ॐ सर्वपर्वतवासिन्यै नमः ।
- ॐ वेदशास्त्रप्रमाण्यै नमः ॥१४०॥
- ॐ षडङ्गादिपदक्रमायै नमः ।
- ॐ धात्र्यै नमः ।
- ॐ शुभानन्दायै नमः ।
- ॐ यज्ञकर्मस्वरूपिण्यै नमः ।
- ॐ व्रतिन्यै नमः ।
- ॐ मेनकायै नमः ।
- ॐ ब्रह्माण्यै नमः ।
- ॐ ब्रह्मचारिण्यै नमः ।
- ॐ एकाक्षरपरायै नमः ।
- ॐ तारायै नमः ॥१५०॥
- ॐ भवबन्धविनाशिन्यै नमः ।
- ॐ विश्वम्भरायै नमः ।
- ॐ धराधारायै नमः ।
- ॐ निराधारायै नमः ।
- ॐ अधिकस्वरायै नमः ।
- ॐ राकायै नमः ।
- ॐ कुह्वे नमः ।
- ॐ अमावास्यायै नमः ।
- ॐ पूर्णिमायै नमः ।
- ॐ अनुमत्यै नमः ॥१६०॥
- ॐ द्युतये नमः ।
- ॐ सिनीवाल्यै नमः ।
- ॐ अवश्यायै नमः ।
- ॐ वैश्वदेव्यै नमः ।
- ॐ पिशङ्गिलायै नमः ।
- ॐ पिप्पलायै नमः ।
- ॐ विशालाक्ष्यै नमः ।
- ॐ रक्षोघ्न्यै नमः ।
- ॐ वृष्टिकारिण्यै नमः ।
- ॐ दुष्टविद्राविण्यै नमः ॥१७०॥
- ॐ सर्वोपद्रवनाशिन्यै नमः ।
- ॐ शारदायै नमः ।
- ॐ शरसन्धानायै नमः ।
- ॐ सर्वशस्त्ररूपिण्यै नमः ।
- ॐ युद्धमध्यस्थितायै नमः ।
- ॐ सर्वभूतप्रभञ्जन्यै नमः ।
- ॐ अयुद्धायै नमः ।
- ॐ युद्धरूपायै नमः ।
- ॐ शान्तायै नमः ।
- ॐ शान्तिस्वरूपिण्यै नमः ॥१८०॥
- ॐ गङ्गायै नमः ।
- ॐ सरस्वत्यै नमः ।
- ॐ वेण्यै नमः ।
- ॐ यमुनायै नमः ।
- ॐ नर्मदायै नमः ।
- ॐ समुद्रवसनावासायै नमः ।
- ॐ ब्रह्माण्डश्रेणिमेखलायै नमः ।
- ॐ पञ्चवक्त्रायै नमः ।
- ॐ दशभुजायै नमः ।
- ॐ शुद्धस्फटिकसन्निभायै नमः ॥१९०॥
- ॐ रक्तायै नमः ।
- ॐ कृष्णायै नमः ।
- ॐ सितायै नमः ।
- ॐ पीतायै नमः ।
- ॐ सर्ववर्णायै नमः ।
- ॐ निरीश्वर्यै नमः ।
- ॐ कालिकायै नमः ।
- ॐ चक्रिकायै नमः ।
- ॐ देव्यै नमः ।
- ॐ सत्यायै नमः ॥२००॥
- ॐ बटुकायै नमः ।
- ॐ स्थितायै नमः ।
- ॐ तरुण्यै नमः ।
- ॐ वारुण्यै नमः ।
- ॐ नार्यै नमः ।
- ॐ ज्येष्ठादेव्यै नमः ।
- ॐ सुरेश्वर्यै नमः ।
- ॐ विश्वम्भरायै नमः ।
- ॐ धरायै नमः ।
- ॐ कर्त्र्यै नमः ॥२१०॥
- ॐ गलार्गलविभञ्जन्यै नमः ।
- ॐ सन्ध्यायै नमः ।
- ॐ रात्र्यै नमः ।
- ॐ दिवायै नमः ।
- ॐ ज्योत्स्नायै नमः ।
- ॐ कलायै नमः ।
- ॐ काष्ठायै नमः ।
- ॐ निमेषिकायै नमः ।
- ॐ उर्व्यै नमः ।
- ॐ कात्यायन्यै नमः ॥२२०॥
- ॐ शुभ्रायै नमः ।
- ॐ संसारार्णवतारिण्यै नमः ।
- ॐ कपिलायै नमः ।
- ॐ कीलिकायै नमः ।
- ॐ अशोकायै नमः ।
- ॐ मल्लिकानवमल्लिकायै नमः ।
- ॐ नन्दिकायै नमः ।
- ॐ शान्तायै नमः ।
- ॐ भञ्जिकायै नमः ।
- ॐ भयभञ्जिकायै नमः ॥२३०॥
- ॐ कौशिक्यै नमः ।
- ॐ वैदिक्यै नमः ।
- ॐ गौर्यै नमः ।
- ॐ रूपाधिकायै नमः ।
- ॐ अतिभासे नमः ।
- ॐ दिग्वस्त्रायै नमः ।
- ॐ नववस्त्रायै नमः ।
- ॐ कन्यकायै नमः ।
- ॐ कमलोद्भवायै नमः ।
- ॐ श्रीसौम्यलक्षणायै नमः ॥२४०॥
- ॐ अतीतदुर्गायै नमः ।
- ॐ सूत्रप्रबोधिकायै नमः ।
- ॐ श्रद्धायै नमः ।
- ॐ मेधायै नमः ।
- ॐ कृतये नमः ।
- ॐ प्रज्ञायै नमः ।
- ॐ धारणायै नमः ।
- ॐ कान्तये नमः ।
- ॐ श्रुतये नमः ।
- ॐ स्मृतये नमः ॥२५०॥
- ॐ धृतये नमः ।
- ॐ धन्यायै नमः ।
- ॐ भूतये नमः ।
- ॐ इष्ट्यै नमः ।
- ॐ मनीषिण्यै नमः ।
- ॐ विरक्त्यै नमः ।
- ॐ व्यापिन्यै नमः ।
- ॐ मायायै नमः ।
- ॐ सर्वमायाप्रभञ्जन्यै नमः ।
- ॐ माहेन्द्र्यै नमः ॥२६०॥
- ॐ मन्त्रिण्यै नमः ।
- ॐ सिंह्यै नमः ।
- ॐ इन्द्रजालरूपिण्यै नमः ।
- ॐ अवस्थात्रयनिर्मुक्तायै नमः ।
- ॐ गुणत्रयविवर्जितायै नमः ।
- ॐ योगीध्यानान्तगम्यायै नमः ।
- ॐ योगध्यानपरायणायै नमः ।
- ॐ त्रयीशिखाविशेषज्ञायै नमः ।
- ॐ वेदान्तज्ञानरुपिण्यै नमः ।
- ॐ भारत्यै नमः ॥२७०॥
- ॐ कमलायै नमः ।
- ॐ भाषायै नमः ।
- ॐ पद्मायै नमः ।
- ॐ पद्मवत्यै नमः ।
- ॐ कृतये नमः ।
- ॐ गौतम्यै नमः ।
- ॐ गोमत्यै नमः ।
- ॐ गौर्यै नमः ।
- ॐ ईशानायै नमः ।
- ॐ हंसवाहिन्यै नमः ॥२८०॥
- ॐ नारायण्यै नमः ।
- ॐ प्रभाधारायै नमः ।
- ॐ जान्हव्यै नमः ।
- ॐ शङ्करात्मजायै नमः ।
- ॐ चित्रघण्टायै नमः ।
- ॐ सुनन्दायै नमः ।
- ॐ श्रियै नमः ।
- ॐ मानव्यै नमः ।
- ॐ मनुसम्भवायै नमः ।
- ॐ स्तम्भिन्यै नमः ॥२९०॥
- ॐ क्षोभिण्यै नमः ।
- ॐ मार्यै नमः ।
- ॐ भ्रामिण्यै नमः ।
- ॐ शत्रुमारिण्यै नमः ।
- ॐ मोहिन्यै नमः ।
- ॐ द्वेषिण्यै नमः ।
- ॐ वीरायै नमः ।
- ॐ अघोरायै नमः ।
- ॐ रुद्ररूपिण्यै नमः ।
- ॐ रुद्रैकादशिन्यै नमः ॥३००॥
- ॐ पुण्यायै नमः ।
- ॐ कल्याण्यै नमः ।
- ॐ लाभकारिण्यै नमः ।
- ॐ देवदुर्गायै नमः ।
- ॐ महादुर्गायै नमः ।
- ॐ स्वप्नदुर्गायै नमः ।
- ॐ अष्टभैरव्यै नमः ।
- ॐ सूर्यचन्द्राग्निनेत्रायै नमः ।
- ॐ ग्रहनक्षत्ररूपिण्यै नमः ।
- ॐ बिन्दुनादकलातीत- बिन्दुनादकलात्मिकायै नमः ॥३१०॥
- ॐ दशवायुजयोंकारायै नमः ।
- ॐ कलाषोडशसंयुतायै नमः ।
- ॐ काश्यप्यै नमः ।
- ॐ कमलायै नमः ।
- ॐ नादचक्रनिवासिन्यै नमः ।
- ॐ मृडाधारायै नमः ।
- ॐ स्थिरायै नमः ।
- ॐ गुह्यायै नमः ।
- ॐ चक्ररूपिण्यै नमः ।
- ॐ अविद्यायै नमः ॥३२०॥
- ॐ शार्वर्यै नमः ।
- ॐ भुञ्जायै नमः ।
- ॐ जम्भासुरनिबर्हिण्यै नमः ।
- ॐ श्रीकायायै नमः ।
- ॐ श्रीकलायै नमः ।
- ॐ शुभ्रायै नमः ।
- ॐ कर्मनिर्मूलकारिण्यै नमः ।
- ॐ आदिलक्ष्म्यै नमः ।
- ॐ गुणाधारायै नमः ।
- ॐ पञ्चब्रह्मात्मिकायै नमः ॥३३०॥
- ॐ परायै नमः ।
- ॐ श्रुतये नमः ।
- ॐ ब्रह्ममुखावासायै नमः ।
- ॐ सर्वसम्पत्तिरूपिण्यै नमः ।
- ॐ मृतसंजीविन्यै नमः ।
- ॐ मैत्र्यै नमः ।
- ॐ कामिन्यै नमः ।
- ॐ कामवर्जितायै नमः ।
- ॐ निर्वाणमार्गदायै नमः ।
- ॐ हंसिन्यै नमः ॥३४०॥
- ॐ काशिकायै नमः ।
- ॐ क्षमायै नमः ।
- ॐ सपर्यायै नमः ।
- ॐ गुणिन्यै नमः ।
- ॐ भिन्नायै नमः ।
- ॐ निर्गुणायै नमः ।
- ॐ अखण्डितायै नमः ।
- ॐ शुभायै नमः ।
- ॐ स्वामिन्यै नमः ।
- ॐ वेदिन्यै नमः ॥३५०॥
- ॐ शक्यायै नमः ।
- ॐ शाम्बर्यै नमः ।
- ॐ चक्रधारिण्यै नमः ।
- ॐ दण्डिन्यै नमः ।
- ॐ मुण्डिन्यै नमः ।
- ॐ व्याघ्र्यै नमः ।
- ॐ शिखिन्यै नमः ।
- ॐ सोमहन्तये नमः ।
- ॐ चिन्तामणिचिदानन्दायै नमः ।
- ॐ पञ्चबाणाग्रबोधिन्यै नमः ॥३६०॥
- ॐ बाणश्रेणये नमः ।
- ॐ सहस्राक्ष्यै नमः ।
- ॐ सहस्रभुजपादुकायै नमः ।
- ॐ सन्ध्याबलायै नमः ।
- ॐ त्रिसन्ध्यायै नमः ।
- ॐ ब्रह्माण्डमणिभूषणायै नमः ।
- ॐ वासव्यै नमः ।
- ॐ वारुणीसेनायै नमः ।
- ॐ कुलिकायै नमः ।
- ॐ मन्त्ररञ्जिन्यै नमः ॥३७०॥
- ॐ जितप्राणस्वरूपायै नमः ।
- ॐ कान्तायै नमः ।
- ॐ काम्यवरप्रदायै नमः ।
- ॐ मन्त्रब्राह्मणविद्यार्थायै नमः ।
- ॐ नादरुपायै नमः ।
- ॐ हविष्मत्यै नमः ।
- ॐ आथर्वण्यै नमः ।
- ॐ शृतये नमः ।
- ॐ शून्यायै नमः ।
- ॐ कल्पनावर्जितायै नमः ॥३८०॥
- ॐ सत्यै नमः ।
- ॐ सत्ताजातये नमः ।
- ॐ प्रमायै नमः ।
- ॐ मेयायै नमः ।
- ॐ अप्रमितये नमः ।
- ॐ प्राणदायै नमः ।
- ॐ गतये नमः ।
- ॐ अपर्णायै नमः ।
- ॐ पञ्चवर्णायै नमः ।
- ॐ सर्वदायै नमः ॥३९०॥
- ॐ भुवनेश्वर्यै नमः ।
- ॐ त्रैलोक्यमोहिन्यै नमः ।
- ॐ विद्यायै नमः ।
- ॐ सर्वधर्त्र्यै नमः ।
- ॐ क्षराक्षरायै नमः ।
- ॐ हिरण्यवर्णायै नमः ।
- ॐ हरिण्यै नमः ।
- ॐ सर्वोपद्रवनाशिन्यै नमः ।
- ॐ कैवल्यपदवीरेखायै नमः ।
- ॐ सूर्यमण्डलसंस्थितायै नमः ॥४००॥
- ॐ सोममण्डलमध्यस्थायै नमः ।
- ॐ वह्निमण्डलसंस्थितायै नमः ।
- ॐ वायुमण्डलमध्यस्थायै नमः ।
- ॐ व्योममण्डलसंस्थितायै नमः ।
- ॐ चक्रिकायै नमः ।
- ॐ चक्रमध्यस्थायै नमः ।
- ॐ चक्रमार्गप्रवर्तिन्यै नमः ।
- ॐ कोकिलाकुलायै नमः ।
- ॐ चक्रेशायै नमः ।
- ॐ पक्षतये नमः ॥४१०॥
- ॐ पङ्क्तिपावनायै नमः ।
- ॐ सर्वसिद्धान्तमार्गस्थायै नमः ।
- ॐ षड्वर्णायै नमः ।
- ॐ वरवर्जितायै नमः ।
- ॐ शतरुद्रहरायै नमः ।
- ॐ हन्त्र्यै नमः ।
- ॐ सर्वसंहारकारिण्यै नमः ।
- ॐ पुरुषायै नमः ।
- ॐ पौरुष्यै नमः ।
- ॐ तुष्टये नमः ॥४२०॥
- ॐ सर्वतन्त्रप्रसूतिकायै नमः ।
- ॐ अर्धनारिश्वर्यै नमः ।
- ॐ सर्वविद्याप्रदायिन्यै नमः ।
- ॐ भार्गव्यै नमः ।
- ॐ याजुषविद्यायै नमः ।
- ॐ सर्वोपनिषदास्थितायै नमः ।
- ॐ व्योमकेशायै नमः ।
- ॐ अखिलप्राणायै नमः ।
- ॐ पञ्चकोशविलक्षणायै नमः ।
- ॐ पञ्चकोशात्मिकायै नमः ॥४३०॥
- ॐ प्रतिचे नमः ।
- ॐ पञ्चब्रह्मात्मिकायै नमः ।
- ॐ शिवायै नमः ।
- ॐ जगते नमः ।
- ॐ जराजनित्र्यै नमः ।
- ॐ पञ्चकर्मप्रसूतिकायै नमः ।
- ॐ वाग्देव्यै नमः ।
- ॐ आभरणाकारायै नमः ।
- ॐ सर्वकाम्यस्थितायै नमः ।
- ॐ स्थितये नमः ॥४४०॥
- ॐ अष्टादशचतुःषष्टि- पीठिकाविद्ययायुतायै नमः ।
- ॐ कालिकायै नमः ।
- ॐ कर्षण्यै नमः ।
- ॐ श्यामायै नमः ।
- ॐ यक्षिण्यै नमः ।
- ॐ किन्नरेश्वर्यै नमः ।
- ॐ केतक्यै नमः ।
- ॐ मल्लिकायै नमः ।
- ॐ अशोकायै नमः ।
- ॐ वाराह्यै नमः ॥४५०॥
- ॐ धरण्यै नमः ।
- ॐ ध्रुवायै नमः ।
- ॐ नारसिंह्यै नमः ।
- ॐ महोग्रास्यायै नमः ।
- ॐ भक्तानामार्तिनाशिन्यै नमः ।
- ॐ अन्तर्बलायै नमः ।
- ॐ स्थिरायै नमः ।
- ॐ लक्ष्म्यै नमः ।
- ॐ जरामरणवर्जितायै नमः ।
- ॐ श्रीरञ्जितायै नमः ॥४६०॥
- ॐ महाकायायै नमः ।
- ॐ सोमसूर्याग्निलोचनायै नमः ।
- ॐ आदितये नमः ।
- ॐ देवमात्रे नमः ।
- ॐ अष्टपुत्रायै नमः ।
- ॐ अष्टयोगिन्यै नमः ।
- ॐ अष्टप्रकृत्यै नमः ।
- ॐ अष्टाष्टविभ्राजद्विकृताकृतये नमः ।
- ॐ दुर्भिक्षध्वंसिन्यै नमः ।
- ॐ सीतायै नमः ॥४७०॥
- ॐ सत्यायै नमः ।
- ॐ रुक्मिण्यै नमः ।
- ॐ ख्यातिजायै नमः ।
- ॐ भार्गव्यै नमः ।
- ॐ देवयोन्यै नमः ।
- ॐ तपस्विन्यै नमः ।
- ॐ शाकम्भर्यै नमः ।
- ॐ महाशोणायै नमः ।
- ॐ गरुडोपरिसंस्थितायै नमः ।
- ॐ सिंहगायै नमः ॥४८०॥
- ॐ व्याघ्रगायै नमः ।
- ॐ वायुगायै नमः ।
- ॐ महाद्रिगायै नमः ।
- ॐ अकारादिक्षकारान्तसर्वविद्याधि- देवतायै नमः ।
- ॐ मंत्रव्याख्याननिपुणायै नमः ।
- ॐ ज्योतिशास्त्रैकलोचनायै नमः ।
- ॐ इडापिङ्गलिकायै नमः ।
- ॐ मध्यसुषुम्नायै नमः ।
- ॐ ग्रन्थिभेदिन्यै नमः ।
- ॐ कालचक्राश्रयोपेतायै नमः ॥४९०॥
- ॐ कालचक्रस्वरूपिण्यै नमः ।
- ॐ वैशाराद्यै नमः ।
- ॐ मतिश्रेष्ठायै नमः ।
- ॐ वरिष्ठायै नमः ।
- ॐ सर्वदीपिकायै नमः ।
- ॐ वैनायक्यै नमः ।
- ॐ वरारोहायै नमः ।
- ॐ श्रोणिवेलायै नमः ।
- ॐ बहिर्वलायै नमः ।
- ॐ जम्भिन्यै नमः ॥५००॥
- ॐ जृभिण्यै नमः ।
- ॐ जृम्भकारिण्यै नमः ।
- ॐ गणकारिकायै नमः ।
- ॐ शरण्यै नमः ।
- ॐ चक्रिकायै नमः ।
- ॐ अनन्तायै नमः ।
- ॐ सर्वव्याधिचिकित्सकाये नमः ।
- ॐ देवक्यै नमः ।
- ॐ देवसङ्काशायै नमः ।
- ॐ वारिधये नमः ॥५१०॥
- ॐ करुणाकरायै नमः ।
- ॐ शर्वर्यै नमः ।
- ॐ सर्वसम्पन्नायै नमः ।
- ॐ सर्वपापप्रभञ्जन्यै नमः ।
- ॐ एकमात्रायै नमः ।
- ॐ द्विमात्रायै नमः ।
- ॐ त्रिमात्रायै नमः ।
- ॐ अपरायै नमः ।
- ॐ अर्धमात्रायै नमः ।
- ॐ परायै नमः ॥५२०॥
- ॐ सूक्ष्मायै नमः ।
- ॐ सूक्ष्मार्थार्थपरायै नमः ।
- ॐ एकवीरायै नमः ।
- ॐ विशेषाख्यायै नमः ।
- ॐ षष्ठिदायायै नमः ।
- ॐ मनस्विन्यै नमः ।
- ॐ नैष्कर्म्यायै नमः ।
- ॐ निष्कलालोकायै नमः ।
- ॐ ज्ञानकर्माधिकायै नमः ।
- ॐ गुणायै नमः ॥५३०॥
- ॐ बन्धुरानन्दसन्दोहायै नमः ।
- ॐ व्योमकारायै नमः ।
- ॐ निरूपितायै नमः ।
- ॐ गद्यपद्यात्मवाण्यै नमः ।
- ॐ सर्वालङ्कारसंयुतायै नमः ।
- ॐ साधुबन्धपदन्यासायै नमः ।
- ॐ सर्वौकसे नमः ।
- ॐ घटिकावलये नमः ।
- ॐ षट्कर्मिण्यै नमः ।
- ॐ कर्कशाकारायै नमः ॥५४०॥
- ॐ सर्वकर्मविवर्जितायै नमः ।
- ॐ आदित्यवर्णायै नमः ।
- ॐ अपर्णायै नमः ।
- ॐ कामिन्यै नमः ।
- ॐ नररूपिण्यै नमः ।
- ॐ ब्रह्माण्यै नमः ।
- ॐ ब्रह्मसन्तानायै नमः ।
- ॐ वेदवाचे नमः ।
- ॐ ईश्वर्यै नमः ।
- ॐ शिवायै नमः ॥५५०॥
- ॐ पुराणन्यायमीमांसायै नमः ।
- ॐ धर्मशास्त्रागमश्रुतायै नमः ।
- ॐ सद्योवेदवत्यै नमः ।
- ॐ सर्वायै नमः ।
- ॐ हंस्यै नमः ।
- ॐ विद्याधिदेवतायै नमः ।
- ॐ विश्वेश्वर्यै नमः ।
- ॐ जगद्धात्र्यै नमः ।
- ॐ विश्वनिर्माणकारिण्यै नमः ।
- ॐ वैदिक्यै नमः ॥५६०॥
- ॐ वेदरूपायै नमः ।
- ॐ कालिकायै नमः ।
- ॐ कालरूपिण्यै नमः ।
- ॐ नारायण्यै नमः ।
- ॐ महादेव्यै नमः ।
- ॐ सर्वतत्वप्रवर्तिन्यै नमः ।
- ॐ हिरण्यवर्णरूपायै नमः ।
- ॐ हिरण्यपदसंभवायै नमः ।
- ॐ कैवल्यपदव्यै नमः ।
- ॐ पुण्यायै नमः ॥५७०॥
- ॐ कैवल्यज्ञानलक्षितायै नमः ।
- ॐ ब्रह्मसम्पत्तिरूपायै नमः ।
- ॐ ब्रह्मसम्पत्तिकारिण्यै नमः ।
- ॐ वारुण्यै नमः ।
- ॐ वारुणाराध्यायै नमः ।
- ॐ सर्वकर्मप्रवर्तिन्यै नमः ।
- ॐ एकाक्षरपरायै नमः ।
- ॐ युक्तायै नमः ।
- ॐ सर्वदारिद्र्यभञ्जिन्यै नमः ।
- ॐ पाशाङ्कुशान्वितायै नमः ॥५८०॥
- ॐ दिव्यायै नमः ।
- ॐ वीणाव्याख्याक्षसूत्रभृते नमः ।
- ॐ एकमूर्त्यै नमः ।
- ॐ त्रयीमूर्त्यै नमः ।
- ॐ मधुकैटभभञ्जन्यै नमः ।
- ॐ साङ्ख्यायै नमः ।
- ॐ साङ्ख्यवत्यै नमः ।
- ॐ ज्वालायै नमः ।
- ॐ ज्वलन्त्यै नमः ।
- ॐ कामरूपिण्यै नमः ॥५९०॥
- ॐ जाग्रन्त्यै नमः ।
- ॐ सर्वसम्पत्त्यै नमः ।
- ॐ सुषुप्तायै नमः ।
- ॐ स्वेष्टदायिन्यै नमः ।
- ॐ कपालिन्यै नमः ।
- ॐ महादंष्ट्रायै नमः ।
- ॐ भ्रुकुटीकुटिलाननायै नमः ।
- ॐ सर्वावासायै नमः ।
- ॐ सुवासायै नमः ।
- ॐ बृहत्यै नमः ॥६००॥
- ॐ अष्टये नमः ।
- ॐ शक्वर्यै नमः ।
- ॐ छन्दोगणप्रतिष्ठायै नमः ।
- ॐ कल्माष्यै नमः ।
- ॐ करुणात्मिकायै नमः ।
- ॐ चक्षुष्मत्यै नमः ।
- ॐ महाघोषायै नमः ।
- ॐ खड्गचर्मधरायै नमः ।
- ॐ अशनये नमः ।
- ॐ शिल्पवैचित्र्यविद्योतितायै नमः ॥ ६१० ॥
- ॐ सर्वतोभद्रवासिन्यै नमः ।
- ॐ अचिन्त्यलक्षणाकारायै नमः ।
- ॐ सूत्रभ्याष्यनिबन्धनायै नमः ।
- ॐ सर्ववेदार्थसम्पतये नमः ।
- ॐ सर्वशास्त्रार्थमातृकायै नमः ।
- ॐ अकारादिक्षकारान्तसर्व- वर्णाकृतस्थलायै नमः ।
- ॐ सर्वलक्ष्म्यै नमः ।
- ॐ सदानन्दायै नमः ।
- ॐ सारविद्यायै नमः ।
- ॐ सदाशिवायै नमः ॥ ६२० ॥
- ॐ सर्वज्ञायै नमः ।
- ॐ सर्वशक्त्यै नमः ।
- ॐ खेचरीरूपगायै नमः ।
- ॐ उच्छ्रितायै नमः ।
- ॐ अणिमादिगुणोपेतायै नमः ।
- ॐ पराकाष्ठायै नमः ।
- ॐ परागतये नमः ।
- ॐ हंसयुक्तविमानस्थायै नमः ।
- ॐ हंसारूढायै नमः ।
- ॐ शशिप्रभायै नमः ॥ ६३० ॥
- ॐ भवान्यै नमः ।
- ॐ वासनाशक्त्यै नमः ।
- ॐ आकृस्थायै नमः ।
- ॐ खिलायै नमः ।
- ॐ अखिलायै नमः ।
- ॐ तन्त्रहेतवे नमः ।
- ॐ विचित्राङ्गायै नमः ।
- ॐ व्योमगङ्गाविनोदिन्यै नमः ।
- ॐ वर्षायै नमः ।
- ॐ वार्षिक्यै नमः ॥ ६४० ॥
- ॐ ऋग्यजुस्सामरूपिण्यै नमः ।
- ॐ महानद्यै नमः ।
- ॐ नदीपुण्यायै नमः ।
- ॐ अगण्यपुण्यगुणक्रियायै नमः ।
- ॐ समाधिगतलभ्यार्थायै नमः ।
- ॐ श्रोतव्यायै नमः ।
- ॐ स्वप्रियायै नमः ।
- ॐ घृणायै नमः ।
- ॐ नामाक्षरपदायै नमः ।
- ॐ उपसर्गनखाञ्चितायै नमः ॥ ६५० ॥
- ॐ निपातोरुद्वय्यै नमः ।
- ॐ जङ्घामातृकायै नमः ।
- ॐ मन्त्ररूपिण्यै नमः ।
- ॐ आसीनायै नमः ।
- ॐ शयानायै नमः ।
- ॐ तिष्ठन्त्यै नमः ।
- ॐ भुवनाधिकायै नमः ।
- ॐ लक्ष्यलक्षणयोगाढ्यायै नमः ।
- ॐ ताद्रूप्यै नमः ।
- ॐ गणनाकृतयै नमः ॥ ६६० ॥
- ॐ सैकरूपायै नमः ।
- ॐ नैकरूपायै नमः ।
- ॐ तस्मै नमः ।
- ॐ इन्दुरूपायै नमः ।
- ॐ तदाकृत्यै नमः ।
- ॐ समासतद्धिताकारायै नमः ।
- ॐ विभक्तिवचनात्मिकायै नमः ।
- ॐ स्वाहाकारायै नमः ।
- ॐ स्वधाकारायै नमः ।
- ॐ श्रीपत्यर्धाङ्गनन्दिन्यै नमः ॥ ६७० ॥
- ॐ गम्भीरायै नमः ।
- ॐ गहनायै नमः ।
- ॐ गुह्यायै नमः ।
- ॐ योनिलिङ्गार्धधारिण्यै नमः ।
- ॐ शेषवासुकिसंसेव्यायै नमः ।
- ॐ चपलायै नमः ।
- ॐ वरवर्णिन्यै नमः ।
- ॐ कारुण्याकारसम्पतये नमः ।
- ॐ कीलकृते नमः ।
- ॐ मन्त्रकीलिकायै नमः ॥ ६८० ॥
- ॐ शक्तिबीजात्मिकायै नमः ।
- ॐ सर्वमंत्रेष्टायै नमः ।
- ॐ अक्षयकामनायै नमः ।
- ॐ आग्नेयायै नमः ।
- ॐ पार्थिवायै नमः ।
- ॐ आप्यायै नमः ।
- ॐ वायव्यायै नमः ।
- ॐ व्योमकेतनायै नमः ।
- ॐ सत्यज्ञानात्मिकानन्दायै नमः ।
- ॐ ब्राह्म्यै नमः ॥ ६९० ॥
- ॐ ब्राह्मण्यै नमः ।
- ॐ सनातन्यै नमः ।
- ॐ अविद्यावासनामायायै नमः ।
- ॐ प्रकृतये नमः ।
- ॐ सर्वमोहिन्यै नमः ।
- ॐ शक्तिधारणाशक्तये नमः ।
- ॐ चिदचिच्छक्तियोगिन्यै नमः ।
- ॐ वक्त्रायै नमः ।
- ॐ अरुणायै नमः ।
- ॐ महामायायै नमः ॥ ७०० ॥
- ॐ मरीचये नमः ।
- ॐ मदमर्दिन्यै नमः ।
- ॐ विराजे नमः ।
- ॐ स्वाहायै नमः ।
- ॐ स्वधायै नमः ।
- ॐ शुद्धायै नमः ।
- ॐ निरुपास्तये नमः ।
- ॐ सुभक्तिगायै नमः ।
- ॐ निरूपितद्वयाविद्यायै नमः ।
- ॐ नित्यानित्यस्वरूपिण्यै नमः ॥ ७१० ॥
- ॐ वैराजमार्गसञ्चारायै नमः ।
- ॐ सर्वसत्पथवासिन्यै नमः ।
- ॐ जालन्धर्यै नमः ।
- ॐ मृडान्यै नमः ।
- ॐ भवान्यै नमः ।
- ॐ भवभञ्जिन्यै नमः ।
- ॐ त्रैकालिकज्ञानदायिन्यै नमः ।
- ॐ त्रिकालज्ञानदायिन्यै नमः ।
- ॐ नादातीतायै नमः ।
- ॐ स्मृतिप्रज्ञायै नमः ॥ ७२० ॥
- ॐ धात्रीरूपायै नमः ।
- ॐ त्रिपुष्करायै नमः ।
- ॐ पराजितायविधानज्ञायै नमः ।
- ॐ विशेषितगुणात्मिकायै नमः ।
- ॐ हिरण्यकेशिन्यै नमः ।
- ॐ हेम्ने नमः ।
- ॐ ब्रह्मसूत्रविचक्षणायै नमः ।
- ॐ असंख्येयपरार्धान्त- स्वरव्यञ्जनवैखर्यै नमः ।
- ॐ मधुजिह्वायै नमः ।
- ॐ मधुमत्यै नमः ॥ ७३० ॥
- ॐ मधुमासोदयायै नमः ।
- ॐ मधवे नमः ।
- ॐ मधव्यै नमः ।
- ॐ महाभागायै नमः ।
- ॐ मेघगम्भीरनिस्वनायै नमः ।
- ॐ ब्रह्मविष्णुमहेशादि- ज्ञातव्यार्थविशेषगायै नमः ।
- ॐ नाभौवह्निशिखाकारायै नमः ।
- ॐ ललाटेचन्द्रसन्निभायै नमः ।
- ॐ भ्रूमध्येभास्कराकारायै नमः ।
- ॐ हृदिसर्वताराकृतये नमः ॥ ७४० ॥
- ॐ कृत्तिकादिभरण्यन्तनक्षत्रेष्ट्याचितोदयायै नमः ।
- ॐ ग्रहविद्यात्मकायै नमः ।
- ॐ ज्योतिषे नमः ।
- ॐ ज्योतिर्विदे नमः ।
- ॐ मतिजीविकायै नमः ।
- ॐ ब्रह्माण्डगर्भिण्यै नमः ।
- ॐ बालायै नमः ।
- ॐ सप्तावरणदेशायै नमः ।
- ॐ वैराज्योत्तमसाम्राज्यायै नमः ।
- ॐ कुमारकुशलोदयायै नमः ॥ ७५० ॥
- ॐ बगलायै नमः ।
- ॐ भ्रमराम्बायै नमः ।
- ॐ शिवदूत्यै नमः ।
- ॐ शिवात्मिकायै नमः ।
- ॐ मेरुविन्ध्यातिसंस्थानायै नमः ।
- ॐ काश्मीरपुरवासिन्यै नमः ।
- ॐ योगनिद्रायै नमः ।
- ॐ महानिद्रायै नमः ।
- ॐ विनिद्रायै नमः ।
- ॐ राक्षसाश्रितायै नमः ॥ ७६० ॥
- ॐ सुवर्णदायै नमः ।
- ॐ महागङ्गायै नमः ।
- ॐ पञ्चाख्यायै नमः ।
- ॐ पञ्चसंहत्यै नमः ।
- ॐ सुप्रजातायै नमः ।
- ॐ सुवीरायै नमः ।
- ॐ सुपोषायै नमः ।
- ॐ सुपतये नमः ।
- ॐ शिवायै नमः ।
- ॐ सुगृहायै नमः ॥ ७७० ॥
- ॐ रक्तबीजान्तायै नमः ।
- ॐ हतकन्दर्पजीविकायै नमः ।
- ॐ समुद्रव्योममध्यस्थायै नमः ।
- ॐ व्योमबिन्दुसमाश्रयायै नमः ।
- ॐ सौभाग्यरसजीवातवे नमः ।
- ॐ सारासारविवेकदृशे नमः ।
- ॐ त्रिवल्यादिसुपुष्टाङ्गायै नमः ।
- ॐ भारत्यै नमः ।
- ॐ भरताश्रितायै नमः ।
- ॐ नादब्रह्ममयीविद्यायै नमः ॥ ७८० ॥
- ॐ ज्ञानब्रह्ममयीपरायै नमः ।
- ॐ ब्रह्मनाडिनिरुक्तायै नमः ।
- ॐ ब्रह्मकैवल्यसाधनायै नमः ।
- ॐ कालिकेयमहोदारवीरवि- क्रमरूपिण्यै नमः ।
- ॐ वडवाग्निशिखावक्त्रायै नमः ।
- ॐ महकवलतर्पणायै नमः ।
- ॐ महाभूतायै नमः ।
- ॐ महादर्पायै नमः ।
- ॐ महासारायै नमः ।
- ॐ महाक्रतवे नमः ॥ ७९० ॥
- ॐ पञ्चभूतमहाग्रासायै नमः ।
- ॐ पञ्चभूताधिदेवतायै नमः ।
- ॐ सर्वप्रमाणसम्पतये नमः ।
- ॐ सर्वरोगप्रतिक्रियायै नमः ।
- ॐ ब्रह्माण्डान्तर्बहिर्व्याप्तायै नमः ।
- ॐ विष्णुवक्षोविभूषिण्यै नमः ।
- ॐ शाङ्कर्यै नमः ।
- ॐ निधिवक्त्रस्थायै नमः ।
- ॐ प्रवरायै नमः ।
- ॐ वरहेतुक्यै नमः ॥ ८०० ॥
- ॐ हेममालायै नमः ।
- ॐ शिखामालायै नमः ।
- ॐ त्रिशिखायै नमः ।
- ॐ पञ्चलोचनायै नमः ।
- ॐ सर्वागमसदाचारमर्यादायै नमः ।
- ॐ यातुभञ्जन्यै नमः ।
- ॐ पुण्यश्लोकप्रबन्धाढ्यायै नमः ।
- ॐ सर्वान्तर्यामिरूपिण्यै नमः ।
- ॐ सामगानसमाराध्यायै नमः ।
- ॐ श्रोतृकर्णरसायन्यै नमः ॥ ८१० ॥
- ॐ जीवलोकैकजीवातवे नमः ।
- ॐ भद्रोदारविलोकनायै नमः ।
- ॐ तडित्कोटिलसत्कान्तये नमः ।
- ॐ तरुण्यै नमः ।
- ॐ हरिसुन्दर्यै नमः ।
- ॐ मीननेत्रायै नमः ।
- ॐ इन्द्राक्ष्यै नमः ।
- ॐ विशालाक्ष्यै नमः ।
- ॐ सुमङ्गलायै नमः ।
- ॐ सर्वमङ्गलसम्पन्नायै नमः ॥ ८२० ॥
- ॐ साक्षान्मङ्गलदेवतायै नमः ।
- ॐ देहहृद्दीपिकायै नमः ।
- ॐ दीप्तये नमः ।
- ॐ जिह्मपापप्रणाशिन्यै नमः ।
- ॐ अर्धचन्द्रोलसद्दंष्ट्रायै नमः ।
- ॐ यज्ञवाटीविलासिन्यै नमः ।
- ॐ महादुर्गायै नमः ।
- ॐ महोत्साहायै नमः ।
- ॐ महादेवबलोदयायै नमः ।
- ॐ डाकिनीड्यायै नमः ॥ ८३० ॥
- ॐ शाकिनीड्यायै नमः ।
- ॐ साकिनिड्यायै नमः ।
- ॐ समस्तजुषे नमः ।
- ॐ निरङ्कुशायै नमः ।
- ॐ नाकिवन्द्यायै नमः ।
- ॐ षडाधाराधिदेवतायै नमः ।
- ॐ भुवनज्ञाननिःश्रेणये नमः ।
- ॐ भुवनाकारवल्लर्यै नमः ।
- ॐ शाश्वत्यै नमः ।
- ॐ शाश्वताकारायै नमः ॥ ८४० ॥
- ॐ लोकानुग्रहकारिण्यै नमः ।
- ॐ सारस्यै नमः ।
- ॐ मानस्यै नमः ।
- ॐ हंस्यै नमः ।
- ॐ हंसलोकप्रदायिन्यै नमः ।
- ॐ चिन्मुद्रालङ्कृतकरायै नमः ।
- ॐ कोटिसूर्यसमप्रभायै नमः ।
- ॐ सुखप्राणिशिरोरेखायै नमः ।
- ॐ सददृष्टप्रदायिन्यै नमः ।
- ॐ सर्वसाङ्कर्यदोषघ्न्यै नमः ॥ ८५० ॥
- ॐ ग्रहोपद्रवनाशिन्यै नमः ।
- ॐ क्षुद्रजन्तुभयघ्न्यै नमः ।
- ॐ विषरोगादिभञ्जन्यै नमः ।
- ॐ सदाशान्तायै नमः ।
- ॐ सदाशुद्धायै नमः ।
- ॐ गृहच्छिद्रनिवारिण्यै नमः ।
- ॐ कलिदोषप्रशमन्यै नमः ।
- ॐ कोलाहलपुरस्थितायै नमः ।
- ॐ गौर्यै नमः ।
- ॐ लाक्षाणिक्यै नमः ॥ ८६० ॥
- ॐ मुख्यायै नमः ।
- ॐ जघन्यायै नमः ।
- ॐ कृतिवर्जितायै नमः ।
- ॐ मायायै नमः ।
- ॐ अविद्यायै नमः ।
- ॐ मूलभूतायै नमः ।
- ॐ वासव्यै नमः ।
- ॐ विष्णुचेतनायै नमः ।
- ॐ वादिन्यै नमः ।
- ॐ वसुरूपायै नमः ॥ ८७० ॥
- ॐ वसुरत्नपरिच्छदायै नमः ।
- ॐ छान्दस्यै नमः ।
- ॐ चन्द्रहृदयायै नमः ।
- ॐ जैत्रायै नमः ।
- ॐ स्वच्छन्दभैरव्यै नमः ।
- ॐ वनमालायै नमः ।
- ॐ वैजयन्त्यै नमः ।
- ॐ पञ्चदिव्यायुधात्मिकायै नमः ।
- ॐ पीताम्बरमय्यै नमः ।
- ॐ चञ्चत्कौस्तुभायै नमः ॥ ८८० ॥
- ॐ हरिकामिन्यै नमः ।
- ॐ नित्यायै नमः ।
- ॐ तथ्यायै नमः ।
- ॐ रमायै नमः ।
- ॐ रामायै नमः ।
- ॐ रमण्यै नमः ।
- ॐ मृत्युभञ्जन्यै नमः ।
- ॐ ज्येष्ठायै नमः ।
- ॐ काष्ठायै नमः ।
- ॐ धनिष्ठान्तायै नमः ॥ ८९० ॥
- ॐ शराङ्ग्यै नमः ।
- ॐ निर्गुणप्रियायै नमः ।
- ॐ मैत्रेयायै नमः ।
- ॐ मित्रविन्दायै नमः ।
- ॐ शेष्यशेषकलाशयायै नमः ।
- ॐ वाराणसीवासलभ्यायै नमः ।
- ॐ आर्यावर्तजनस्तुतायै नमः ।
- ॐ जगदुत्पत्तिसंस्थापन- संहारत्रयीकारणायै नमः ।
- ॐ तुभ्यं नमः ।
- ॐ अम्बायै नमः ॥ ९०० ॥
- ॐ विष्णुसर्वस्वायै नमः ।
- ॐ महेश्वर्यै नमः ।
- ॐ सर्वलोकानाम्जनन्यै नमः ।
- ॐ पुण्यमूर्तये नमः ।
- ॐ सिद्धलक्ष्म्यै नमः ।
- ॐ महाकाल्यै नमः ।
- ॐ महालक्ष्म्यै नमः ।
- ॐ सद्योजातादिपञ्चाग्निरूपायै नमः ।
- ॐ पञ्चकपञ्चकायै नमः ।
- ॐ यन्त्रलक्ष्म्यै नमः ॥ ९१० ॥
- ॐ भवत्यै नमः ।
- ॐ आदये नमः ।
- ॐ आद्याद्यायै नमः ।
- ॐ सृष्ट्यादिकारणाकारविततये नमः ।
- ॐ दोषवर्जितायै नमः ।
- ॐ जगल्लक्ष्म्यै नमः ।
- ॐ जगन्मात्रे नमः ।
- ॐ विष्णुपन्यै नमः ।
- ॐ नवकोटिमहाशक्तिसमुपास्य- पदाम्बुजायै नमः ।
- ॐ कनत्सौवर्णरत्नाढ्य-सर्वाभरणभूषितायै नमः ॥ ९२० ॥
- ॐ अनन्तानित्यमहिष्यै नमः ।
- ॐ प्रपञ्चेश्वरनायिकायै नमः ।
- ॐ अत्युच्छ्रितपदान्तस्थायै नमः ।
- ॐ परमव्योमनायक्यै नमः ।
- ॐ नाखपृष्ठगताराध्यै नमः ।
- ॐ विष्णुलोकविलासिन्यै नमः ।
- ॐ वैकुण्ठराजमहिष्यै नमः ।
- ॐ श्रीरङ्गनगराश्रितायै नमः ।
- ॐ रङ्गभार्यायै नमः ।
- ॐ भूपुत्र्यै नमः ॥ ९३० ॥
- ॐ कृष्णायै नमः ।
- ॐ वरदवल्लभायै नमः ।
- ॐ कोटिब्रह्माण्डसेव्यायै नमः ।
- ॐ कोटिरुद्रादिकीर्तितायै नमः ।
- ॐ मातुलङ्गमयं खेटं बिभ्रत्यै नमः ।
- ॐ सौवर्णचषकं बिभ्रत्यै नमः ।
- ॐ पद्मद्वयं दधानायै नमः ।
- ॐ पूर्णकुम्भं बिभ्रत्यै नमः ।
- ॐ कीरं दधानायै नमः ।
- ॐ वरदाभये दधानायै नमः ॥ ९४० ॥
- ॐ पाशं बिभ्रत्यै नमः ।
- ॐ अङ्कुशं बिभ्रत्यै नमः ।
- ॐ शङ्खं वहन्त्यै नमः ।
- ॐ चक्रं वहन्त्यै नमः ।
- ॐ शूलं वहन्त्यै नमः ।
- ॐ कृपाणिकां वहन्त्यै नमः ।
- ॐ धनुर्बाणोबिभ्रत्यै नमः ।
- ॐ अक्षमालां दधानायै नमः ।
- ॐ चिन्मुद्रां बिभ्रत्यै नमः ।
- ॐ अष्टादशभुजायै नमः ॥ ९५० ॥
- ॐ महाष्टादशपीठगायै नमः ।
- ॐ भूमीनीलादिसंसेव्यायै नमः ।
- ॐ स्वामिचित्तानुवर्तिन्यै नमः ।
- ॐ पद्मायै नमः ।
- ॐ पद्मालयायै नमः ।
- ॐ पद्मिन्यै नमः ।
- ॐ पूर्णकुम्भाभिषेचितायै नमः ।
- ॐ इन्दिरायै नमः ।
- ॐ इन्दिराभाक्ष्यै नमः ।
- ॐ क्षीरसागरकन्यकायै नमः ॥ ९६० ॥
- ॐ भार्गव्यै नमः ।
- ॐ स्वतन्त्रेच्छायै नमः ।
- ॐ वशीकृतजगत्पतये नमः ।
- ॐ मङ्गलानांमङ्गलायै नमः ।
- ॐ देवतानांदेवतायै नमः ।
- ॐ उत्तमानामुत्तमायै नमः ।
- ॐ श्रेयसे नमः ।
- ॐ परमामृतये नमः ।
- ॐ धनधान्याभिवृद्धये नमः ।
- ॐ सार्वभौमसुखोच्छ्रयायै नमः ॥ ९७० ॥
- ॐ आन्दोलिकादिसौभाग्यायै नमः ।
- ॐ मत्तेभादिमहोदयायै नमः ।
- ॐ पुत्रपौत्राभिवृद्धये नमः ।
- ॐ विद्याभोगबलाधिकायै नमः ।
- ॐ आयुरारोग्यसम्पत्तये नमः ।
- ॐ अष्टैश्वर्यायै नमः ।
- ॐ परमेशविभूत्यै नमः ।
- ॐ सूक्ष्मात्सूक्ष्मतरागतये नमः ।
- ॐ सदयापाङ्गसन्दत्तब्रह्मेन्द्रादि- पदस्थितये नमः ।
- ॐ अव्याहतमहाभाग्यायै नमः ॥ ९८० ॥
- ॐ अक्षोभ्यविक्रमायै नमः ।
- ॐ वेदानाम्समन्वयायै नमः ।
- ॐ वेदानामविरोधायै नमः ।
- ॐ निःश्रेयसपदप्राप्ति- साधनफलायै नमः ।
- ॐ श्रीमन्त्रराजराज्ञै नमः ।
- ॐ श्रीविद्यायै नमः ।
- ॐ क्षेमकारिण्यै नमः ।
- ॐ श्रीं बीज जपसन्तुष्टायै नमः ।
- ॐ ऐं ह्रीं श्रीं बीजपालिकायै नमः ।
- ॐ प्रपत्तिमार्गसुलभायै नमः ॥ ९९० ॥
- ॐ विष्णुप्रथमकिङ्कर्यै नमः ।
- ॐ क्लीङ्कारार्थसावित्र्यै नमः ।
- ॐ सौमङ्गल्याधिदेवतायै नमः ।
- ॐ श्रीषोडशाक्षरीविद्यायै नमः ।
- ॐ श्रीयन्त्रपुरवासिन्यै नमः ।
- ॐ सर्वमङ्गलमाङ्गल्यायै नमः ।
- ॐ सर्वार्थसाधिकायै नमः ।
- ॐ शरण्यायै नमः ।
- ॐ त्र्यम्बकायै नमः ।
- ॐ नारायण्यै नमः ॥ १००० ॥
॥ श्रीलक्ष्मीसहस्रनामावलिः समाप्ता ॥
॥ इति श्रीस्कन्दपुराणे सनत्कुमारसंहितायां
लक्ष्मीसहस्रनामस्तोत्राधारित नामावलिः ॥