श्रीलक्ष्मीसुप्रभातम् (Shri Lakshmi Suprabhatam | Lakshmi Stotram)

M Prajapat
0
श्रीलक्ष्मीसुप्रभातम् (Shri Lakshmi Suprabhatam | Lakshmi Stotram)
श्रीलक्ष्मीसुप्रभातम्

श्रीलक्ष्मीसुप्रभातम् (Shri Lakshmi Suprabhatam | Lakshmi Stotram)

श्रीलक्ष्मीसुप्रभातम् ॥

मातः प्रसन्नवदनाम्बुजनिर्जिताब्जे
क्षीराब्धिजे सकललोकपवित्रमूर्ते ।
आर्तप्रपन्नजनवन्दितपादपद्मे
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ १॥

सद्योविकासि कुसुमेषु सुगन्धमत्ताः
गायन्ति मातरमितं भ्रमरा यशस्ते ।
तन्मञ्जुनादपरिबोधितदिव्यदेवि
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ २॥

स्नात्वामलः सुरगजः सुरदीर्घिकायां
शुण्डोद्धृताब्जविलसद्वदनेन तूर्णम् ।
सन्तिष्ठते गृहमुखे तव भक्तवर्यः
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ ३॥

शोभां तवैव वदनस्य सदा नवीनां
सम्प्राप्य भानुरिह लोकतमःप्रहन्ता ।
प्राचीं दिशं भजति सोऽपि तवैव भक्तः
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ ४॥

पद्मानि सन्ति रुचिराणि मनोहराणि
वायुस्तथा वहति मन्दगतिः प्रभाते ।
चेतोहरीह सुषमा प्रकृतेस्तवेयं
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ ५॥

पूर्वाद्रिसानुशिखरात् समधिष्ठितोऽयं
भानुः क्षणं लसति देवि महाप्रकाशः ।
त्वन्मूर्तिराजीतकिरीटमणिप्रकाशः
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ ६॥

त्वद्दर्शनार्थमभियान्ति सुरेन्द्रमुख्याः
देवास्त्वदीयपदपङ्कजदत्तचित्ताः ।
आयोज्य तान् लससि कर्मचये त्वमेव 
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ ७॥

प्रत्यग्रपुष्पनिचयं स्वकरैर्गृहीत्वा
त्वत्पूजनाय मनुजा धृतशुभ्रवस्त्राः ।
आयान्ति मन्दिरमितस्तव भक्तियुक्ताः
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ ८॥

पद्मप्रिये रुचिरपद्ममुखि स्मितासि
पद्मालये विजितपद्मविभेत्रि तन्वि ।
त्वं पाहि नूनमनिशं जनतां भयार्तेः
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ ९॥

अम्ब त्वमेव जगतां प्रतिमा रिरिक्षुः
नित्योऽर्पिता लससि शाश्वतधर्मगोप्त्री ।
त्वामाश्रिता जहति दुःखचयं हि भक्ताः
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ १०॥

मातर्मदीयहृदये सदयं वसाना
मज्जीवनं हि कुरु सार्थकमात्मदीत्या ।
त्वामाश्रितो भवति नैव विपद्भयार्तः
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ ११॥

त्वं श्रीहरेर्हृदयमेव सदाऽऽश्रितासि
प्रीतिं ततो वहसि लोकशुभाय मातः ।
तत्प्रेममूर्तिरभयं सदयं तनोषि
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ १२॥

प्रेमप्रफुल्लनयनान्तनरीक्षणेन
श्रीमन् तनोषि जगतां दयया दयाब्धे ।
वात्सल्यमूर्तिरसि सन्तत लोकमाता   
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ १३॥

त्वन्नेत्रभानुसुविकासितपद्मतल्पो 
भानुश्चकास्ति गगने सतत प्रकाशः ।
नित्यं न भक्तवलिनी जलमध्यभागे
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ १४॥

मन्दस्मिताङ्कुरविभा कमनीयशोभः
चन्द्रो विभाति रुचिरो नभसि प्रदीप्तः ।
त्वन्मन्दहास इव भाति हि चन्द्रिकेयं
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ १५॥

त्वन्निर्मलेषु हृदयेषु सदैव रूढा
तत्संपदं च सततं द्विगुणां करोषि ।
सम्पन्नता त्वमसि मङ्गलदेवि मातः
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ १६॥

आजन्मनः सकललोकविशिष्टवाञ्छाः
सम्पूर्य मोक्षमपि देवि त्वमेव दत्से ।
त्वामाश्रितोऽस्मि वरदायिनि लोकमातः
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ १७॥

नारायणस्य परिपूर्णमहत्स्वरूपे
नारायणि प्रियतरे कुरु मान्त्रितार्थम् ।
त्वं श्रीहरिप्रियतमासि तदीयचित्ता
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ १८॥

नेत्राञ्चलप्रणयवर्षणमत्तचित्तो
नारायणस्तव सदा रमते हृदब्जे ।
तत्प्रेममूर्तिरसि देवि सदैव मातः
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ १९॥

पश्यात्र देवि मुनिलोकमविप्रपन्नं
श्रीसूक्तमन्त्रजपकोटिपवित्रचित्तम् ।
पायात्तमुग्रतपसं तव भक्तिपूतं
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ २०॥

पृथ्वी-जलं-तपन-वायु-नभांसि चापि
त्वामाश्रितानि खलु कर्म सुशक्तिकानि ।
सर्वं तवैव महिमेति श्रुति समित्ते
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ २१॥

श्रुत्यन्तमूर्त्मिनतमानसपद्मपूगे
फुल्लारविन्दनिचये च शिशोश्च हासे ।
त्वं निर्मले वससि देवि सदैव चित्ते
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ २२॥

लक्ष्मि स्वयं वससि शुद्धधनेऽत्र लोके
धान्ये तथैव विजये स्वपराक्रमाप्ते ।
ज्ञाने च शान्तिसहिते परिपूर्णरूपे
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ २३॥

सायन्तने वससि निर्मलगोसमूहे
वत्सप्रिये शिशुषु दोहनकर्मसक्ते ।
दुग्धेऽपिगोरिहसता परिपोषरूपा
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ २४॥

त्वं पर्वतेषु परिरम्यशिखिस्थलेषु
पुष्पादिकेषु निबिडेषु वनस्थलेषु ।
मन्दाकिनीषु तटिनीषु जलस्थलेषु
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ २५॥

प्राणादि संयमपरेषु सदा हृदन्ते
नारायणस्पृतिपरेषु च मानवेषु ।
मातः सदा लससि बोधमहत्स्वरूपा
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ २६॥

त्वामाश्रितो जगति पुण्यफलं समस्तं
सम्प्राप्नुते तदनुमोक्षपदं तथान्ते ।
त्वामाश्रितश्च मधुसूदनमाश्रितः सन्
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ २७॥

सम्प्रत्यहो मनुजबुद्धिरतीव दुष्टा
सम्पत्फलाय कुरुते खलु दुष्टयत्ना ।
संस्कार्य ताञ्च जननीव समुद्धरेस्त्वं
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ २८॥

न त्वां विना मनुजजन्मफलं जगत्यां
संप्राप्नुयां हि सकलं विकला स्वशक्त्या । 
तस्मात्त्वमेव परिपाहि दयां कुरुष्व
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ २९॥

मधुमथनकटाक्षप्रेमभाण्डाररूपा
सकलविमलसम्पद्वृद्धिरूपा च लक्ष्मीः ।
लसतु मम हृदब्जे पूर्णबोधात्मना सा
दिशतु च भुवि सर्वं योग्यमात्यन्तिकं च ॥ ३०॥

Shri Lakshmi Suprabhatam | श्रीलक्ष्मीसुप्रभातम् | Lakshmi Stotram | Diwali Bhajan

Singer: Amrita Chaturvedi Upadhyay
Lyrics: Adi Shankaracharya
Music: Rohit Kumar (Bobby)

एक टिप्पणी भेजें

0टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!