श्री राधा अष्टकम् (Shri Radha Ashtakam)

M Prajapat
0
श्री राधा अष्टकम् (Shri Radha Ashtakam)
श्री राधा अष्टकम्

श्री राधा अष्टकम् (Shri Radha Ashtakam)


कृष्णाराध्यां जगतसेव्यां जगद्गुरु जगतप्रसूम् ।
नमामि मातरं राधां कृष्णाराधनतत्पराम् ॥ १॥

कृष्णसुखप्रदात्रीञ्च कृष्णप्राणप्रियां शुभाम् ।
राधां कृष्णमयीं दिव्यां कृष्णहृदि स्थितां भेजे ॥ २॥

गोविन्दानन्दिनीं राधां गोविन्दमोहिनीं पराम् ।
गोविन्द हृद वन्दे सर्वकान्तशिरोमणिम् ॥ ३॥

शरणागतसम्भर्त्रीमार्तत्राणपरायणाम् ।
ज्ञानभक्तिप्रदां देवीं राधां वन्दे जगद्द्गुरुम् ॥ ४॥

प्रेमस्वरूपिणीं श्यामां महाभावमयीं पराम् ।
ज्ञानमयीं जगद्धात्रीं भजामि राधिकां सदा ॥ ५॥

व्रजेश्वरीं सखोसेव्यां वृन्दावनविहारिणीम् ।
देवीं वृन्दावनेश्वरीं प्रपद्येऽहं सदानतः ॥ ६॥

सर्वसुरनरैर्गीतां महादेवीं हरिप्रियाम् ।
कृष्णानुरूपसौगुण्यां श्रीराधिकामहं भजे ॥ ७॥

मातर्नमामि राधे !त्वां करुणापूरितान्तराम् ।
प्रेमभक्ति प्रदानेन प्रपन्नं पाहि मां सदा ॥ ८॥

हरिः ॐ तत्सत् हरिः ॐ !

इति श्रीअमरप्रसादभट्टाचार्यविरचितं श्रीराधाष्टकं समाप्तम् ।


एक टिप्पणी भेजें

0टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!