मूर्तिरहस्यम्: श्रीदुर्गासप्तशती (Moorti Rahasyam: Shree Durga Saptashati)

M Prajapat
मूर्तिरहस्यम्: श्रीदुर्गासप्तशती (Moorti Rahasyam: Shree Durga Saptashati)
मूर्तिरहस्यम्: श्रीदुर्गासप्तशती

मूर्तिरहस्यम्: श्रीदुर्गासप्तशती (Moorti Rahasyam: Shree Durga Saptashati)

अथ मूर्तिरहस्यम्

ऋषिरुवाच 

॥ ॐ ॥

नन्दा भगवती नाम या भविष्यति नन्दजा ।
स्तुता सा पूजिता भक्त्या वशीकुर्याज्जगत्त्रयम् ॥ 

कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा ।
देवी कनकवर्णाभा कनकोत्तमभूषणा ॥

कनकाङ्कुशपाशाब्जैरलङ्कृतचतुर्भुजा ।
इदिरा कमला लक्ष्मीः सा श्रीरुक्माम्बुजासना ॥ 

या रक्तदन्तिका नाम देवी प्रोक्ता मयानघ ।
तस्याः स्वरूपं वक्ष्यामि श‍ृणु सर्वभयापहम् ॥

रक्ताम्बरा रक्तवर्णा रक्तसर्वाङ्गभूषणा ।
रक्तायुधा रक्तनेत्रा रक्तकेशातिभीषणा ॥ 

रक्ततीक्ष्णनखा रक्तदशना रक्तदंतिका।
पतिं नारीवानुरक्ता देवी भक्तं भजेज्जनम् ॥ 

वसुधेव विशाला सा सुमेरुयुगलस्तनी ॥
दीर्घौ लम्बावतिस्थूलौ तावतीव मनोहरौ ॥ 

कर्कशावतिकान्तौ तौ सर्वानन्दपयोनिधी ।
भक्तान्सपाययेद्देवी सर्वकामदुधौ स्तनौ ॥

खड्गपात्रं च मुसलं लाङ्गलं च बिभर्ति सा ।
आख्याता रक्तचामुण्डा देवी योगेश्वरीति च ॥ 

अनया व्याप्तमखिलं जगत्स्थावरजङ्गमम् ।
इमां यः पूजयेद्भक्त्या स व्याप्नोति चराचरम् ॥ 

भुक्त्वा भोगान् यथाकामं देवीसायुज्ययाप्नुयात् ।
अधीते य इमं नित्यं रक्तदन्त्या वपुःस्तवम् ।
तं सा परिचरेद्देवी पतिं प्रियमिवाङ्गना ॥ 

शाकम्भरी नीलवर्णा नीलोत्पलविलोचना ।
गम्भीरनाभिस्त्रिवलीविभूषिततनूदरी ॥ 

सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनी ।
मुष्टिं शिलीमुखापूर्णं कमलं कमलालया ॥

पुष्पपल्लवमूलादिफलाढ्यं शाकसञ्चयम् ।
काम्यानन्तरसैर्युक्तं क्षुत्तृण्मृत्युभयापहम् ॥ 

कार्मुकं च स्फुरत्कान्ति बिभ्रती परमेश्वरी ।
शाकम्भरी शताक्षी सा सैव दुर्गा प्रकीर्तिता ॥ 

विशोका दुष्टदमनी शमनी दुरितापदाम् ।
उमा गौरी सती चंडी कालिका सा च पार्वती ॥

शाकम्भरीं स्तुवन्ध्यायन् जपन्सम्पूजयन्नमन् ।
अक्षय्यमश्नुते शीघ्रमन्नपानामृतं फलम्॥ 

भीमापि नीलवर्णा सा दंष्ट्रादशनभासुरा ।
विशाललोचना नारी वृत्तपीनपयोधरा ॥ 

चन्द्रहासं च डमरुं शिरःपात्रं च बिभ्रती ।
एकवीरा कालरात्रिः सैवोक्ता कामदा स्तुता ॥

तेजोमण्डलदुर्धर्षा भ्रामरी चित्रकान्तिभृत् ।
चित्रभ्रमरपाणिः सा महामारीति गीयते ॥ 

इत्येता मूर्तयो देव्या याः ख्याता वसुधाधिप ।
जगन्मातुश्चंडिकायाः कीर्तिताः कामधेनवः ॥

इदं रहस्यं परमं न वाच्यं कस्यचित्त्वया ।
व्याख्यानं दिव्यमूर्तीनामभीष्टफलदायकम् ॥

देव्या ध्यानं मयाख्यातं गुह्याद्गु ह्यतरं महत् ।
तस्मात्सर्वप्रयत्नेन सर्वकामफलप्रदम् ॥ 

एतस्यास्त्वं प्रसादेन सर्वमान्यो भविष्यसि ।
सर्वरूपमयी देवी सर्वं देवीमयं जगत् ।
अतोऽहं विश्वरूपां तां नमामि परमेश्वरीम् ॥

॥ इति मूर्तिरहस्यं सम्पूर्णम् ॥

देवी माहात्म्यम् / दुर्गा सप्तशती - 


Moorti Rahasyam | Shree Durga Saptashati | Navratri Durga Paath

Singer: Amrita Chaturvedi Upadhyay
Lyrics: Traditional (Version: Shree Durga Saptashati, Gita Press)
Music: Rohit Kumar (Bobby)
Flute: Pt. Ajay Shankar Prasanna

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!